________________
R
श्रीप्रवचनपरीक्षा २विश्रामे ॥७८॥
ORPramaANTA
अनुकरणविचार:
ARid
IMPARAULIARPURIHIPIMP
अरिहंतस्सुवयारी संजमजोएसु नेव वत्थाई। इअरेसिं उवयारी तेणं णो सरिसया दुण्हं ॥१०॥ अर्हतः संयमयोगेधूपकारी वस्त्रपात्रादिन भवति, इतरेषां सुधर्मादिसाधूनां भवति, तेन तीर्थकृता सह साम्यं न साधोरितिगाथार्थः ॥१०॥ अथार्हन् कीदृशः कीदृशाश्च साधव इत्याह
तेणं अरिहा रहिओ सलिंगपरलिंगऽगारलिंगेहिं । तस्सऽणुरूवं रूवं धरिउं सम्मं न साहूणं ॥११॥
येन कारणेन तीर्थकृतां वस्त्राद्यनुपयोगः तेन कारणेनार्हन् स्वलिङ्गपरलिङ्गगृहस्थलिङ्गै रहितः स्यात् , तत्र स्खलिङ्गं रजोहर| णादि परलिङ्गमन्यतीथिकलिङ्गं पिच्छिकादिकं गृहस्थलिङ्गं तु प्रतीतमेव, एभिर्विप्रमुक्तस्तीर्थकद्भवति, यदागमः- "सवेवि एगद्| सेण निग्गया जिणवरा चउव्वीसं । न य नाम अण्णलिंगे णो गिहिलिंगे कुलिंगे वा ॥१॥ (आ० २२७) इति, तस्याहतोऽनुरूपं सदृशं रूपं धत्तुं न सम्यग्-सत्यं युक्तमितिगाथार्थः॥११।। अथ तीर्थकरानुकरणे हितशिक्षामाह
जइ जिणवरअणुकरणे वीसासो हुज्ज ता इमं सवं । परिहर धम्मुवएसं छउमत्थे सीसकरणाइ ॥१२॥ ___यदि तीर्थकरानुकरणे विश्वासस्तर्हि एतद्-वक्ष्यमाणं सर्व परिहरेत्यन्वयः, एतत्किमित्याह-छामस्थ्ये-छद्मस्थावस्थायां धर्मोपदेशं शिष्यकरणादि च परिहर, यतः तीर्थकराः छद्मस्थावस्थायां न धर्मोपदेशं कस्यचित्प्रव्रज्यां च ददति, आदिशब्दादमुकस्य वयं शिष्याः अस्माकं चायं गुरुरित्यादिव्यवहारोऽपि परिहर्त्तव्यः, तीर्थकृतां तथाव्यवहाराभावात् , तथा आचार्यपदग्रहणं सूत्राद्यध्ययनाध्यापनादि पुनः पुनर्लोचकरणं चेत्याद्यपि त्याज्यं, तेषां तदभावादितिगाथार्थः॥१२॥ अथ प्रकारान्तरेणापि तीर्थकरानुकृति षयितुमाह
RSHIRIRAINRIMURTILITAMIRMATMARA