________________
श्रीप्रवचनपरीक्षा २ विश्रामे
॥ ७७ ॥
अपि ये तथाविधलब्धिमन्तस्त एव वस्त्रं न विभ्रति, शेषास्तु वस्त्रधारिण एव, अत एव जिनकल्पिकानामुत्कर्षतो द्वादशविध उपधिः प्राग्दर्शितः ९ । इति वस्त्राभावप्रसाधनाय दिगम्बरोद्भावित विकल्पनवकं निरस्तमिति गाथार्थः || ६ || अथ दिगम्बरः शङ्कते - सीसो गुरुअणुहारी रूवेणवि अण्णहा कह णु सीसो ? । तेण वयं जिणसीसा गुरूवि अम्हाण जिणणाहो ||७|| नेवं जुत्तं जत्तो सीसो गुरुवयणसंठिओ निचं । सुगुरूवि हिउवएसी अहिअस्स निवारगो सीसे ॥८॥ शिष्यस्तावद्रूपेणापि, आचारेण तु भवत्येवेत्यपिशब्दाद्बोध्यं, 'गुर्व्वनुहारी' गुरुसदृशो भवेत्, नु इति वितर्के, अन्यथा कथं शिष्यः १, गुर्वनुरूपः शिष्यो भवेदित्यर्थः तेन कारणेन वयमेव जिनशिष्याः अस्माकमपि जिननाथो गुरुरितिदिगम्बराशय इति गाथार्थः ||७|| अथ दिगम्बराशयं निराकरोति — गुर्वनुकारी शिष्य इति वक्तुं न युक्तं, शिष्यत्वमेव तव व्याहन्येत, न ह्यर्हन् शि ष्यत्वमात्मनः ख्यापयति, त्वं तु तीर्थकुच्छिष्यत्वमिति कथं तदनुरूपतेति दूषणं माता मे वन्ध्येति न्यायकल्पमुपेक्ष्यापि गुरुशिप्ययोः स्वरूपमाह - 'सीसो'त्ति शिष्यो नित्यं गुरुवचनस्थितो गुर्वाज्ञातत्परः स्यात्, गुरुरपि हितोपदेशी अहितनिवारकश्च स्यात्, यदुक्तं - " हिताहितप्राप्तिपरिहारोपदेष्टा गुरु" रिति गाथार्थः ||८|| अथ गुरोरपि स्वरूपेण द्वैविध्यमाह
सोऽवि दुहा जिणणा हेअरभेआ आइमो अ देवगुरू । बीओ खलु सीसगुरू वीरसुहम्माइणाएण ||९|| 'सोsपि ' गुरुरपि द्विधा, जिननाथेतर भेदाद् - अर्हत्साधुभेदात्, तत्रादिमो 'देवगुरू' देवः सन् हिताद्युपदेशको देवगुरुः, परोपदेशमन्तरेणैव स्वयं संबुद्धः सन् अमुकस्य तीर्थकरादेः शिष्य इत्येवंरूपः सन् पारन्त्र्येण हिताद्युपदेशकः शिष्यगुरुः, 'वीरसुधर्मादिज्ञातेन' भीनीरसुधर्मस्वामिदृष्टान्तेने तिगाथार्थः || ९ || अथ श्रीवीर श्रीसुधर्मस्वामिनोः सर्वथा सादृश्याभावे हेतुमाह -
अनुकरणविचार:
॥ ७७ ॥