________________
श्रीप्रवचनपरीक्षा २विश्रामे | ॥७६॥
जिताचेलपरिषहतादि
PAHIRALHARIHA RIHARASHANIWHATIATIHARITHIHAHINICHARIHARE
णात् तेषु माद्यभावाच मुनयोऽचेला व्यपदिश्यन्त इतीह तात्पर्य,न चान्यथा परिभोगेणाचेलकत्वव्यवहारोऽप्रतीतो भविष्यतीति शकनीयं, "जह जलमयगाहंतो बहुचेलोऽवि सिरवेढिअकडिल्लो । भण्णइ नरो अचेलो तह मुणओ संतचेलावि ॥१॥" (वि० २६००)त्ति विशेषावश्यकभाष्यवचनाल्लोकव्यवहारेऽपि प्रतीतत्वात् , तथा जीर्णादिभिरपि वस्त्रैरचेलत्वव्यवहारो यथा-"तह थोवजुण्णकुच्छिअ
चेलेहिवि भण्णई अचेलुत्ति । जह तूर सालि लहुं दिसु पोत्तिं नग्गिआ मो॥१॥त्ति"(वि०२६०१) विशेषावश्यकभाष्ये,अस्या अर्थः, | पूर्वाद्धं सुगम, 'जह तूरे त्यादि दृष्टान्तः यथा इह काऽपि योषित् कटिवेष्टितजीर्णबहुच्छिद्रकशाटिका कश्चित्कोलिकं वदति-त्वरस्व | भोः शालिक!-शीघ्रो भूत्वा मदीयपोतीशाटिकां निर्माप्य 'ददस्व' समर्पय, नग्निका वर्तेऽहं, तदिह सवस्त्रायामपि योषिति नाग्न्यवाचकशब्दप्रवृत्तेः, तसादुपचरितमेवाचेलक्यं संयमोपकारी, न पुनः सर्वथा वस्त्राभावः, तेनाचेलतापरीषहोऽपि तदेवेति बोध्यं ६। नापि प्रवचनगौरवार्थमित्यपि विकल्पः श्रेयान् , वस्त्राभावे प्रवचनखिंसाया एवाध्यक्षसिद्धत्वाद्गौरवं तु दुरापास्तमिति ७। अथ तीर्थकृदनभ्युपगन्तृत्वमिति विकल्पः सोऽप्यश्राव्यः, यतस्तीर्थकराः सर्वेऽपि निरुपमधृतिसंहननाः छमस्थावस्थायामपि ज्ञानचतुष्टयोपेताः अतिशयसत्त्वसंपन्नाः अच्छिद्रपाणयो जितसमस्तपरीषहा भवन्ति, तस्मात्तेषां वस्त्राद्यमावेऽपि संयमविराधनादयो दोषा न भवन्ति, अतस्तीर्थकृतां वस्त्रादिकं संयमोपकार्यपि न स्याद् , अकिश्चित्करत्वात् , यच्चैकं देवद्ध्यवस्त्रमादाय तीर्थकृतः प्रत्र| जन्ति तत् सवस्त्रो धर्मो मया प्रज्ञापनीय इति ज्ञापनार्थम् , एतेन तीर्थकृतां सर्वथा वस्त्राभाव एवेति दिगम्बराभिप्रायोऽपि तिरस्कृतः, यावत् तद्देवदृष्यवस्त्रसंधारणं तावत्कालं सचेला अपि भगवन्तो भवन्तीति, किंच-तीर्थकृदनुकृतौ छामस्थ्ये धर्मोपदेशशिष्यप्रव्राजनाङ्गाद्यध्ययनादिकमपि व्युच्छियेत, तीर्थकतां तदभावात् ८। अथ जिनकल्पिकानभ्युपगन्तृत्वमित्यपि न चारु, यतो जिनकल्पिका
॥७६॥