________________
श्रीप्रव चनपरीक्षा २ विश्रामे
1104 11
| अथोद्गमादिदोषविप्रमुक्तं विशुद्धमेषणीयं भक्तपानादिकं रागादिदोषरहितः सन् सेवमानोऽपि जितपिपासादिपरीषहो मुनिर्भण्यते तर्हि योऽयं विधिर्भक्तादिषु यतेः स विधिर्वस्त्रेऽपि भण्यमानः क्वापि नष्टो १ येन तथाविधवस्त्र परिभोगाजिताचेलपरीषहो मुनिर्न स्यात्, | यत्तु साधूनामाचेलक्यमुक्तं तच्च वस्त्रे सत्यसति चागमे लोके च रूढं, तथाहि - इहाचेलक्यं द्विधा - मुख्यमौपचारिकं च, तत्र मुख्यं | तीर्थकृतां कस्यचिञ्जिनकल्पिकस्य च तत्र तीर्थकृतां प्रव्रज्याप्रतिपत्तिसमये वामस्कंन्धस्योपरि देवेन्द्रोपनीत देवदृष्य वस्त्रापगमे स|र्व्वथा वस्त्राभावात् मुख्यवृत्त्यैवाचेलकत्वं, जिनकल्पिकस्य तु कस्यचित्तथाविधलब्धिमतो जिनकल्पप्रतिपत्तेः रजोहरणमुखवस्त्रिकात| रिक्तोपकरणाभावात् सर्व्वथा वस्त्राभावादेवाचेलकत्वं मुख्यमेव, उक्तशेषसाधूनां तूपचरितं यतस्ते परिशुद्धजीर्णादिवस्त्रं मूर्च्छादिरा| हित्येन परिभुञ्जानाः सत्यपि वस्त्रेऽचेला एव भण्यन्ते, यदागमः - " परिसुद्धजुण्णकुच्छि अथोवानिअयण्णभोग भोगेहिं । मुणिणो मुच्छा| रहिआ संतेहिं अचेलया हुंति || ९ || (वि० २५९९) अस्या व्याख्या - मुनयः - साधवो मूर्च्छारहिताः सद्भिरपि चेलैरुपचारतोऽचेलका | भवन्ति, कथंभूतैश्चेलैरित्याह- 'परिसुद्ध' त्ति लुप्तविभक्तिदर्शनात् परिशुद्धैः - एषणीयैः तथा जीर्णैः- बहुदिवसैः कुत्सितैः - असारैः स्तोकैः - गणनाप्रमाणतो हीनैस्तुच्छैर्वा अनियतैः - कादाचित्कासेवनैः अन्यभोगभोगैः - लोकरूढप्रकारादन्यप्रकारेण भोगः - आसेवनं, | प्रकारलक्षणस्य मध्यपदस्य लोपाद् अन्यभोगस्तेनान्यभोगेन भोगः - परिभोगो येषां तानि तथा, तैरित्येवंभूतैश्वेलैः सद्भिरप्युपचा| रतोऽचेलका मुनयो भण्यन्ते, एवंभूतं चाचेलकत्वं लोकेऽपि प्रसिद्धमेव, यथा कटीवस्त्रेण वेष्टितशिरसो जलावगाढपुरुषस्याचेलकत्वव्यप| देशः एवं साधोरपि कच्छाबन्धाभावात् कूर्पराभ्यामग्रभाव एव चोलपट्टकस्य धारणात् मस्तकस्योपरि प्रावरणाद्यभावाच्च लोकरूढ( प्रकारादन्य) प्रकारेण चेलभोगो द्रष्टव्यः, तदेवं 'परिसुद्धजुण्णक्कुच्छिअ' इत्यादिविशेषणविशिष्टैः सद्भिरपि चेलैस्तथाविधवस्त्रकार्याकर
आचेलक्यव्यवस्था
1114 11