SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा २ विश्रामे ॥ ७१ ॥ 'वेअण' गाहा, वेदना च क्षुद्वेदना १ वैयावृत्यम् - आचार्यादिकृत्यकरणं २ वेदनावैयावृत्ये, भुञ्जीत वेदनोपशमनार्थं वैयावृत्य करणार्थं | चेति भावः, ईर्या - गमनं तस्या विशुद्विः - युगमात्रनिहित दृष्टित्वमीर्याविशुद्धिस्तस्यै च ईर्याविशुद्ध्यर्थमिम्, इह च विशुद्धिशब्दलोपा| दीर्यापथमित्युक्तं, बुभुक्षितो हीर्याशुद्धावशक्तः स्यादिति तदर्थमिति, चः समुच्चये, संयमः - प्रेक्षोत्प्रेक्षाप्रमार्जनादिलक्षणस्तदर्थं, तथेति | कारणान्तरसमुच्चये, प्राणाः - उच्छ्वासादयो बलं वा तेषां तस्य वा वृत्तिः - पालनं तदर्थं, प्राणसंधारणार्थमित्यर्थः, षष्ठं पुनः कारणं | धर्मचिन्तायै, गुणनानुप्रेक्षार्थमित्यर्थः इत्येतानि षट् कारणानीति । किंच - आहारकारणापेक्षया वस्त्रकारणं बलवत्तरमेव, यतो | वस्त्रपरित्यागे लज्जादिमनुष्यधर्म्मरहितो लोके देवत्तायत्तोऽयमनालाप्यो द्रष्टुमप्यकल्प्य इत्याद्युपेक्ष्यैव परिद्दियते, आहारपरित्यागे | चाहो महानुभावोऽयं तपस्वी यावत्पर्युपासनार्ह इत्यादिख्यातिमान् प्रवचनगौरव हेतुर्भवेत्, तस्माद्गुह्यावयवाद्याच्छादनेन मनुष्यधर्मसत्यापन हेतुं वस्त्रमुपादाय परिहर परिणामानुचितमाहारविधिमिति सुहृद्वचः सत्यमेवेति बोध्यम् १ | अथ मूर्च्छानिमित्तं हि | वस्त्रमितिकृत्वा वस्त्रोपादानं नाभिमतमिति द्वितीयविकल्पचेत् तर्हि वयं पृच्छामः - भो नग्नाट! निजशरीरे तव मूर्च्छाऽस्ति नवा १, | अस्ति चेत्तर्हि शरीरखद्वस्त्रमपि तवास्तां, न्यायस्य समानत्वात् नास्ति चेत्सुतरां वस्त्रे मूर्च्छा न स्यात्, न ह्यवाप्ते कल्पतरावमूच्छितः कल्पतरूपकारिण्यां तृणादिवृत्तौ मूर्छितः कोऽपि संभवेद्, अयं भावः - प्रायोऽनन्तकालेनापि दुर्लभं रत्नकोटिशतैरपि ऋयेणालभ्यमनेककोटिद्रव्यव्ययेनापि परिपालनार्हं तत्परिपालननिमित्तं बहुमूल्य बहुवस्तुविनाशेऽपि प्रमोदास्पदं वस्त्राद्यनेकबाह्यवस्त्वपेक्षया ंतरङ्गं चिरकालस्थायि च अहिकण्टककर्करगर्त्ताग्निवातातपशीताद्युपद्रवेभ्यः परित्रायमाणं लक्षपाकादितैलोद्वर्त्तनजलधावनादिना | परिशील्यमानं शर्करापानपुरस्सरमिष्टान्नपानादिभव्यभोजनविधिना परिपाल्यमानं, किं बहुना १, स्वर्गापवर्गाद्यनेकाभीष्टार्थसाधक जिनानुपदिष्टत्वादि ॥ ७१ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy