________________
UPDAIL
जिनानुपदिष्टत्वादि
श्रीप्रवचनपरीक्षा रविश्रामे ॥७०॥
परिहरणीयं स्यात,तत्राप्युक्तदोषाणां सुतरां संभवाद्,आस्तामन्यद् अथवा ज्ञानदर्शनचारित्राण्यपि त्याज्यानि भवेयुः,यतः पुरुषविशेषे ज्ञानाद्यपि सदोष-त्वद्विकल्पितदोषभाग् , तत्कथमितिचेच्छृणु, भो नग्नाट! त्वया वस्त्रं नाभ्युपगम्यते तत्र कारणं किं ?, जिनानु| पदिष्टत्वं वा१ उत मूर्छाहेतुत्वं वार भयहेतुत्वं वा३ क्रोधादिहेतुत्वं वा४ दुर्ध्यानहेतुत्वं वा५ परीषहसहनार्थ वा६ प्रवचनगौरवं
वा७ अर्हदनभ्युपगतत्वं वा८ जिनकल्पिकानभ्युपगतत्वं वार इति नव विकल्पाः, आद्यो विकल्पो नाल्पदोषावहः, लज्जादिरक्षानिमित्त | वस्त्रधारणस्य जिनेरनुज्ञातत्वाद् , यदागमः-"तिहिं ठाणेहिं वत्थं धारेजा, तं०-हिरिवत्तिअं१ दुगुंछावत्तिअं२ परीसहवत्तिअंति | श्रीस्थानांगे (सू.१७१) एतवृत्तिर्यथा-ही-लजा संयमो वा प्रत्ययो-निमित्तं यस्य धारणस्य तत्तथा, जुगुप्सा-लोकविहिता निन्दा |सा प्रयोजनं यस्य तत्तथा, एवं परीषहाः-शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथे"ति, एतच्च त्वयाऽपि प्रागभ्युपगतं, परं कारणिकमित्यादि यदुद्भावितं तत् शून्यहृदयत्वात्सम्यक् नोपलक्षितं, तथाहि-वयमपीथमेव ब्रूमः-त्रिभिरेव कारणैः साधुर्वस्त्र धरेत् , परं यानि कारणान्युक्तानि तानि कारणानि जिनकल्पाद्ययोग्यानां निरतिशयिनां च साधूनां सततं संभवत्येव, ततो धारणीयमेव वस्त्रं,यदिवा कुत्सापरीषहार्थं न तत् ध्रियते तथापि संयमनिमित्तमवश्यं धरणीयमेव, अन्यथा शीतकालेऽग्निज्वालनादिना महाऽसंयमापत्तेः,यच्चोक्तम्-'असमसाहसवतामस्माकं कारणमसंभवी तितहि भवादृशामाहारग्रहणमपि न युक्तं,तस्यापि कारणिकत्वाद्, यदागमः-"छहिं ठाणेहि समणे निग्गंथे आहारमाहारेमाणे नाइक्कमइ, तं०-वेअण१ वेयावच्चेर इरिअट्ठाए अ३ संजमहाए४। तह |पाणवत्तिआए५ छटुं पुण धम्मचिंताए६ ॥४१॥ त्ति (सू०५००) श्रीस्थानाङ्गे, अस्य व्याख्या-'छहिन्ति कण्ठयं,नवरमाहारम् | -अशनादिकमाहारयन्-अभ्यवहरन् नातिक्रामत्याज्ञा, पुष्टालम्बनत्वाद्, अन्यथा त्वतिक्रामत्येव, रागादिभावात् , तद्यथा
PRITAMATTAHARIHALIPAITHILIRITUPIAHILIBHIRAL
॥ ७०