SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा २विश्रामे ॥६९॥ देहाहारज्ञानादौ प्रतिबन्दी गणिकया दृष्टा, तत इत्थं विवस्त्रां बीभत्सामिमां दृष्ट्वा मा लोकोऽस्मासु विराङ्गीदित्यनिच्छन्त्यपि तया परिधापिताऽसौ, स | एव व्यतिकरोऽनया शिवभूतये निवेदितः, ततोऽनेन विवस्त्रा योषिनितरां वीभत्सातिलज्जनीया च भवतीति विचिन्त्य प्रोक्ताऽसौतिष्ठ त्वमित्थमपि, न त्यक्तव्यं त्वयैतद्वस्त्रं,देवतया हि तवेदं प्रदत्तमिति,ततः शिवभूतिना कौण्डिन्यकोट्टवीरौ शिष्यौ दीक्षितौ,ताभ्यामाचार्यशिष्यलक्षणा परम्परा प्रवृत्तेति बोटिकदृष्टेरुत्पत्तिरिति गाथार्थः ॥४॥अथ दिगम्बरमतप्ररूपणामधिकृत्य मूलप्ररूपणामाह तम्मयमूलपरूवणमुवगरणं धम्मसाहणं जं च । तंपिअपरिग्गहो खलु मुच्छाभयदोसहेउत्ति ॥५॥ तस्य-दिगम्बरस्य मते मूलप्ररूपणं-प्रथम एव भाषणं 'जंच'त्ति चोऽप्यर्थे व्यवहितः संबध्यते, यद्धर्मसाधनमप्युपकरणं-रजोहरणादिचतुर्दशोपकरणलक्षणं तदपि परिग्रहः,खलुरवधारणे,परिग्रह एव, तत्र विशेषणद्वारा हेतुमाह-'मुच्छ'त्ति, तत्परिग्रहः कुतो?, | यतस्तदुपकरणं मूर्छाभयद्वेषहेतुरिति, ममेदमित्येवंरूपेण रागानुषङ्गो मूर्छा,चौरादेरुपहरणसमुत्थं भयं,तदनुपकारिणि च द्वेषः,तेषां हेतुरुपकरणमित्यर्थः, यस्मादेवं तस्मादुत्सर्गतो वस्त्रधारणं साधूनां न युक्तं, 'जिताचेलपरिसहो मुणि'त्ति वचनाद् वस्त्राभावे सत्ये| वाचेलतापरीषहो जितो भवेत् , यच्चागमे-"तिहिं ठाणेहिं वत्थं धरेजा,तं०-हिरिपत्ति? दुगुंछावत्तिअं२ परीसहयत्तिअं३" (स्था० १७१ सू०) इति वस्त्रधारणमुक्तं,तच लजादिरक्षार्थ कारणिकमेव, कारणं चासदृशसाहसवतामसादृशामसंभवीति दिगम्बराभिप्रायमारूढः पूर्वपक्ष इति गाथार्थः ॥५॥ अथ दिगम्बरविकल्पितं पूर्वपक्षं प्रतिबन्धैव दूषयितुमाह| देहाहारप्पमुहं परिहरणिजं हविज्ज तस्समए। अहवाणाणाइ जओ पुरिसविसेसे सदोसंति ॥६॥ | देहः-शरीरमाहारः-अशनादिलक्षणश्चतुर्विधस्तत्प्रमुखं-तदादि,आदिशब्दात् शय्याऽऽसनवसत्यादिपरिग्रहः,तदपि तन्मते-दिगम्बरमते SPIRAHI HIROHITHAITAHARIHARANAINARIAnimatha marath A ॥६९ ॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy