SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ | ३ शतके | उद्देशः१ तामलीतापसाधिकारः मू०१३३ पव्वजा ॥ (मू० १३३)॥ व्याख्या 'जहेव रायप्पसेणइजेत्ति यथैव राजप्रश्नीयाख्येऽध्ययने सरियाभदेवस्य वक्तव्यता तथैव चेहेशानेन्द्रस्य, किमन्तेत्याहप्रज्ञप्तिः 'जाव दिव्वं देविढि'मिति, सा चेयमर्थसक्षेपतः-सभायां सुधर्मायामीशाने सिंहासनेऽशीत्या सामानिकसहस्रैश्चतुर्भिर्लोकपालैरअभयदेवी ष्टाभिः सपरिवाराभिरग्रमहिषीभिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिश्चतसृभिश्चाशीतिभिरात्मरक्षदेवसहस्राणाम् अन्यैश्च बहुभिर्देवैःया वृत्तिः वीभिश्व परिवृतो महताहतनाटयादिरवेण दिव्यान् भोगभोगान् भुञ्जानो विहरति स, इतश्च जम्बूद्वीपमवधिनाऽऽलोकयन् भगवन्तं ॥२८८॥ महावीरं राजगृहे ददर्श, दृष्ट्वा च ससंभ्रममासनादुत्तस्थौ, उत्थाय च सप्ताष्टानि पदानि तीर्थकराभिमुखमाजगाम, ततो ललाटतटघटितकरकुड्मलो ववन्दे, वन्दित्वा चाभियोगिकदेवान शब्दयाञ्चकार, एवं च तानवादीत-गच्छत भो राजगृहं नगरं महावीरं भगवन्तं वन्दचं योजनपरिमण्डलं च क्षेत्रं शोधयत, कृत्वा चैवं मम निवेदयत, तेऽपि तथैव चक्रुः, ततोऽसौ पदात्यनीकाधिपति देवमेवमवा. ४ दीत्-भो! भो! देवानां प्रिय ! ईशानावतंसकविमाने घण्टामास्फालयन् घोषणां कुरु यदुत गच्छति भो ! ईशानेन्द्रो महावीरस्य वन्दनाय ततो यूयं शीघ्रं महा तस्यान्तिकमागच्छत, कृतायां च तेन तस्यां बहवो देवाः कुतूहलादिभिस्तत्समीपमुपागताः, तैश्च परिवृत्तोऽसौ योजनलक्षप्रमाणयानविमानारूढोऽनेकदेवगणपरिवृतो नन्दीश्वरे द्वीपे कृतविमानसक्षेपो राजगृहनगरमाजगाम, ततो भगवन्तं त्रिःप्रदक्षिणीकृत्य चतुर्भिरङ्गुलै वमप्राप्त विमानं विमुच्य भगवत्समीपमागत्य भगवन्तं वन्दित्वा पर्युपास्ते म, ततो धर्म श्रुत्वैवमवादी-भदन्त ! यूयं सर्व जानीय पश्यथ, केवलं गौतमादीनां महर्षीणां दिव्यं नाट्यविधिमुपदर्शयितुमिच्छामीत्यभिधाय दिव्यं मण्डपं विकुर्वितवान् , तन्मध्ये मणिपीठिका तत्र च सिंहासनं, ततश्च भगवन्तं प्रणम्य तत्रोपविवेश, ततश्च तस्य दक्षिणाद्ध प्रा०१६२
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy