SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७३॥ वक्रियं SARA यस्यां साऽरकोत्तासिता, 'एवमेव'त्ति निरन्तरतयेत्यर्थः प्रभुर्जम्बूद्वीपं बहुभिर्देवादिभिराकीर्ण कर्तुमिति योगः, वृद्धैस्तु व्याख्यातं-यथा यात्रादिषु युवतियंनो हस्ते लमा-प्रतिबद्धा गच्छति बहुलोकप्रचिते देशे, एवं यानि रूपाणि विकुचितानि तान्येकसिन् कर्तरि प्रति- | ३ शतके | बद्धानि, यथा वा चक्रस्य नाभिरेका बहुभिररकैः प्रतिबद्धा घना निश्छिद्रा, एवमात्मशरीरप्रतिवद्धैरमुरदेवैर्देवीभिश्च पूरयेदिति । 'वेउ दाउद्देशः १ चमरेन्द्रव्वियसमुग्याएणति वैक्रियकरणाय प्रयत्नविशेषेण 'समोहणइत्ति समुपहन्यते-समुपहतो भवति समुपहन्ति वा-प्रदेशान् विक्षिपतीति । तत्स्वरूपमेवाह-'संखेजाइंइत्यादि, दण्ड इव दण्ड:-ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशकर्मपुद्गलसमूहः, तत्र च सू०१२६ विविधपुद्गलानादत्त इति दर्शयन्नाह-तद्यथा-'रत्नानां' कतनादीनाम् , इह च यद्यपि रत्नादिपुद्गला औदारिका वैक्रिय समुद्घाते च वैक्रिया एव ग्राह्या भवन्ति तथाऽपीह तेषां रत्नादिपुद्गलानामिव सारताप्रतिपादनाय रलानामित्याधुक्तं, तच्च रत्नानामिवेत्यादि | व्याख्येयम् , अन्ये त्वाः-औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्तीति, यावत्करणादिदं दृश्यम्-'वइराण वेरुलियाणं लोहियकूखाणं मसारगल्लाणं हंसगम्भाणं पुलयाणं सोगंधियाणं जोतीरसाणं अंकाणं अंजणाणं रयणाणं जायरूवाणं अंजण पुलयाणं फलिहाणं ति, किम् ?, अत आह–'अहाबायरे'त्ति यथाबादरान्-असारान् पुद्गलान् परिशातयति दण्डनिसर्गगृहीतान् , यत्रोक्तं आ०१५४ प्रज्ञापनाटीकायां 'यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्रा-बद्धान शातयतीति तत्ससुद्धातशब्दसमर्थनार्थमनाभोगिक वैक्रियशरीरकर्मनिर्जरणमाश्रित्यति, "अहासुहमें त्ति यथासूक्ष्मान् सारान् 'परियाएति' पर्यादत्ते, दण्डनिसर्गगृहीतान् सामस्त्येनादत्त इत्यर्थः 'दोचंपित्ति द्वितीयमपि वारं समुद्घातं करोति. चिकीर्षितरूपनिर्मापणार्थ, ततश्च 'पभुत्ति समर्थः केवलकप्पंति २७३। केवला-परिपूर्णः कल्पत इति कल्पः-खकार्यकरणसामोपेतस्ततः कर्मधारयः, अथवा 'केवलकल्पः केवलज्ञानसदृशः परिपूर्णतासाध -*
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy