SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ क व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२७॥ ३ शतके उद्देश: उद्देशकसंग्रहणी मू०१२४ ॥ अथ तृतीयं शतकम् ॥ ___व्याख्यातं द्वितीयशतम् अथ तृतीयं व्याख्यायते, अस्य चायमभिसम्बन्धः-अनन्तरशतेऽस्तिकाया उक्ताः, इह तु तद्विशेषभूतस्य जीवास्तिकायस्य विविधधर्मा उच्यन्ते, इत्येवंसम्बन्धस्यास्य तृतीयशतस्योद्देशकार्थसाहायेयं गाथा केरिसविउव्वणा' चमर किरिय जाणिथि नगर पाला य । अहिवई इंदियपरिसा ततियम्मि सए दसुद्देसा ॥ २३ ॥ तत्र 'केरिसविउव्वणति कीदृशी चमरस्य विकुर्वणाशक्तिरित्यादिप्रश्ननिर्वचनार्थः प्रथम उद्देशकः १, 'चमर'त्ति चमरोत्पाताभिधानार्थो द्वितीयः २, 'किरिय'त्ति कायिक्यादिक्रियाद्यर्थाभिधानार्थस्तृतीयः ३, 'जाण'त्ति यानं देवेन वैक्रियं कृतं जानाति साधुरित्याद्यर्थनिर्णयार्थश्चतुर्थः ४, 'इत्थिति साधुर्बाह्यान् पुद्गलान् पर्यादाय प्रभुः स्त्र्यादिरूपाणि वैक्रियाणि कर्तुमित्याद्यर्थनिर्णयार्थः पञ्चमः ५, 'नगर'त्ति वाराणस्यां नगा कृतसमुद्घातोऽनगारो राजगृहे रूपाणि जानातीत्याद्यर्थनिश्चयपरः षष्ठः ६, 'पाला यति सोमादिलोकपालचतुष्टयस्वरूपाभिधायकः सप्तमः ७, 'अहिवइत्ति असुरादीनां कति देवा अधिपतयः ? इत्याद्यर्थपरोष्टमः, 'इंदियत्ति इन्द्रियविषयाभिधानार्थो नवमः ९, 'परिस'त्ति चमरपरिषदभिधानार्थो दशमः १० इति । तत्र कीदृशी विकुर्वणा ? इत्याद्यर्थस्य प्रथमोद्देशकस्येदं सूत्रम् तेणं कालेणं तेणं समएणं मोया नाम नगरी होत्था, वण्णओ, तीसे णं मोयाए नगरीए बहिया उत्तरपुर-18 २७०॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy