________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः
२६६॥
जीवस्यैव बुद्धिपरिकल्पिता द्वयादयो विभागाः, 'जीवपएस 'ति तस्यैव बुद्धिकृता एव प्रकृष्टा देशाः प्रदेशाः, निर्विभागा भागा इत्यर्थः, 'अजीव 'त्ति धर्मास्तिकायादयो, ननु लोकाकाशे जीवा अजीवाचेत्युक्ते तदेशप्रदेशास्तत्रोक्ता एव भवन्ति, जीबाद्यव्यतिरिक्तत्वाद्देशादीनां ततो जीवाजीवग्रहणे किं देशादिग्रहणेने ति ?, नैवं निरवयवा जीवादय इति मतव्यवच्छेदार्थत्वादस्यति, अत्रोत्तरंगोयमा ! जीवाबी'त्यादि. अनेन चाद्यप्रश्नत्रयस्य निर्वचनमुक्तम् । अथान्त्यस्य प्रश्नत्रयस्य निर्वचनमाह – 'रूवी य'ति मूर्त्ताः, पुद्गला इत्यर्थः, 'अरूवी यत्ति अमूर्त्ताः, धर्मास्तिकायादय इत्यर्थः, 'वध'त्ति परमाणुप्रचयात्मकाः स्कन्धाः, 'स्कन्धदेशाः ' द्वयादयो विभागाः 'स्कन्धप्रदेशाः ' तस्यैव निरंशा अंशाः 'परमाणुपुद्गलाः ' स्कन्धभावमनापन्नाः परमाणव इति, ततो लोकाकाशे रूपिद्रव्यापेक्षया 'अजीवावि अजीवदेसावि अजीवपएसावि' इत्येतदर्थतः स्याद्, अणूनां स्कन्धानां चाजीवग्रहणेन ग्रहणात्, 'जे अरूवी ते पंचविहे 'त्यादि, अन्यत्रारूपिणो दशविधा उक्ताः, तद्यथा-आकाशास्तिका यस्तद्देशस्तत्प्रदेशश्चेत्येवं धर्माधर्मास्तिकाय समयश्चेति दश, इह तु सभेदस्याकाशस्याधारत्वेन विवक्षितत्वात्तदाधेयाः सप्त वक्तव्या भवन्ति, न च तेऽत्र विवक्षिताः, वक्ष्यमाणकारणात्, ये तु विवक्षितास्तानाह - पश्चेति, कथमित्याह - 'धम्मत्थिकाए' इत्यादि, इह जीवानां पुद्गलानां च बहुत्वादेकस्यापि जीवस्य पुद्गलस्य वा स्थाने सङ्कोचादितथाविधपरिणामवशाद्बहवो जीवाः पुद्गलाश्च तथा तद्देशास्तत्प्रदेशाश्च संभवन्तीति कृत्वा जीवाश्च जीवदेशाश्च जीवप्रदेशाश्च, तथा रूपिद्रव्यापेक्षयाऽजीवाश्चाजीव देशाश्चाजीव प्रदेशाश्चेति संगतम्, एकत्राप्याश्रये भेदवतो वस्तुत्रयस्य सद्भावात्, धर्मास्तिकायादौ तु द्वितयमेव युक्तं यतो यदा संपूर्ण वस्तु विवक्ष्यते तदा धर्मास्तिकायादीत्युच्यते, तदंशविवक्षायां तु तत्प्रदेशा इति तेषामवस्थितरूपत्वात्, तदेशकल्पना त्वयुक्ता तेषामनवस्थितरूपत्वादिति, यद्यपि चानवस्थितरूपत्वं जीवादिदेशानामप्यस्ति
२ शतके
उद्देशः १० लोकालोकयोजवप्रदेशाद मू०१२०
॥२६६॥