________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १२६४॥
|२ शतके | उद्देशः १. जीवस्यज्ञानादिपूर्याय | रुपदर्शनात मू०११९
| सर्व इत्यर्थः, ते च स्वस्वभावरहिता अपि भवन्तीत्यत आह-प्रतिपूर्णाः-आत्मस्वरूपेणाविकलाः, ते च प्रदेशान्तरापेक्षया स्वस्खभाव
न्यूना अपि तथोच्यन्त इत्याह-निरवसेस'त्ति प्रदेशान्तरतोऽपि खखभावेनान्यूनाः, तथा 'एगग्गहणगहियत्ति एकग्रहणेन| एकशब्देन-धर्मास्तिकाय इत्येवंलक्षणेन गृहीता येते तथा, एकशब्दाभिधेया इत्यर्थः, एकार्था वैते शब्दाः, 'पएसा अणंता
भाणियब्वत्ति धर्माधर्मयोरसङ्खयेयाः प्रदेशा उक्ताः, आकाशादीनां पुनः प्रदेशा अनन्ता वाच्याः, अनन्तप्रदेशिकत्वात् त्रयाणामपीति ॥ उपयोगगुणो जीवास्तिकायः प्राग्दर्शितः, अथ तद्देशभूतो जीव उत्थानादिगुण इति दर्शयन्नाह
जीवे णं भंते ! सउट्ठाणे सकम्मे सबले सवीरिए सपुरिसक्कारपरक्कमे आयभावेणं जीवभावं उवदंसेतीति वत्तव्वं सिया?, हंता गोयमा ! जीवे णं सउट्ठाणे जाव उवदंसेतीति वत्तव्वं सिया । से केणढणं जाव वत्तव्वं सिया ?, गोयमा! जीवे णं अणंताणं आभिणिबोहियनाणपजवाणं एवं सुयनाणपज्जवाणं ओहिनाणपजवाणं मणपज्जवनाणप० केवलनाणप० मइअन्नाणप० सुयअन्नाणप० विभंगणाणपजवाणं चक्खुदंसणप० अचक्खुदसणप० ओहिदसणप० उवओगं गच्छइ, उवओगलक्खणे णं जीवे, से तेणट्ठणं एवं वुच्चइ-गोयमा ! जीवे णं सउहाणे जाव वत्तव्वं सिया ॥ (सू० ११९)
'जीवे णमित्यादि, इह च 'सउट्ठाणे'इत्यादीनि विशेषणानि मुक्तजीवव्युदासार्थानि 'आयभावेण ति आत्मभावेन-उत्थानशयनगमनभोजनादिरूपेणात्मपरिणामविशेषेण 'जीवभावं ति जीवत्वं-चैतन्यम् 'उपदर्शयति' प्रकाशयतीति वक्तव्यं स्याद ?, विशि- टस्योत्थानादेविशिष्टचेतनापूर्वकत्वादिति । 'अणताणं आभिणिबोहिए'त्यादि, 'पर्यवाः' प्रज्ञाकृता अविभागाः पलिच्छेदाः, ते
॥२६॥