________________
व्याख्या
२ शतके
प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२६३॥
उदेशः १० अस्तिकाया:
पूर्णप्रदेश४ वाच्यता च
सू०११८
तिण्हंपि पदेसा अणता भाणियव्वा, सेसं तं चेव ॥ (सू०११८)॥
'कइ णमित्यादि, अस्तिशब्देन प्रदेशा उच्यन्ते अतस्तेषां काया-राशयोऽस्तिकाया:, अथवाऽस्तीत्ययं निपातः कालत्रयाभिधायी, ततोऽस्तीति-सन्ति आसन् भविष्यन्ति च ये कायाः-प्रदेशराशयस्तेऽस्तिकाया इति, धर्मास्तिकायादीनां चोपन्यासेऽयमेव क्रमः, | तथाहि-धर्मास्तिकायादिपदस्य माङ्गलिकत्वाद्धर्मास्तिकाय आदावुक्तः, तदनन्तरं च तद्विपक्षत्वाद् अधर्मास्तिकायः, ततश्च तदाधारत्वादा-
काशास्तिकायः, ततोऽनन्तत्वामूर्तत्वसाधाज्जीवास्तिकायः, ततस्तदुपष्टम्भकत्वात्पुद्गलास्तिकाय इति ॥ 'अवणे इत्यादि, यत | एवावर्णादिरत एव 'अरूपी' अमृों, न तु निःस्वभावो, नत्रः पर्युदासवृत्तित्वात् , शाश्वतो द्रव्यतः अवस्थितः प्रदेशतः, 'लोगब्वे'त्ति लोकस्य-पश्चास्तिकायात्मकस्यांशभूतं द्रव्यं लोकद्रव्यं, भावत इति पर्यायतः, 'गुणओत्ति कार्यतः 'गमणगुणे'त्ति जीवपुद्गलानां गतिपरिणतानां गत्युपष्टम्भहेतुर्मत्स्यानां जलमिवेति । 'ठाणगुणे'त्ति जीवपुद्गलानां स्थितिपरिणतानां स्थित्युपष्टम्भहेतुर्मत्स्यानां स्थलमिवेति । 'अवगाहणागुणे'त्ति जीवादीनामवकाशहेतुर्बदराणां कुण्डमिव । 'उवओगगुणे'त्ति उपयोगः-चैतन्यं साकारानाकारभेदं । 'गहणगुणे त्ति ग्रहणं-परस्परेण सम्बन्धनं जीवेन वा औदारिकादिभिः प्रकारैरिति ॥ 'खंडं चक्के इत्यादि, यथा खण्डचक्रं चक्रं न भवति, खण्डचक्रमित्येवं तस्य व्यपदिश्यमानत्वात् , अपि तु सकलमेव चक्रं चक्रं भवति, एवं धर्मास्तिकायः प्रदेशेनाप्यूनो न धर्मास्तिकाय इति वक्तव्यः स्याद् , एतच्च निश्चयनयदर्शन, व्यवहारनयमतं तु एकदेशेनोनमपि वस्तु वस्त्वेव, यथा खण्डोऽपि घटो घट एव, छिन्नकर्णोऽपि श्वाश्चैव, भणन्ति च-'एकदेशविकृतमनन्यवदिति॥'से किंखाइंति' अथ किं पुनरित्यर्थः 'सब्वेवि' समस्ताः, ते च देशापेक्षयाऽपि भवन्ति, प्रकारकारन्येऽपि सर्वशब्दप्रवृत्तेरिति, अत आह-'कसिण'त्ति कृत्स्नाः, न तु तदेकदेशापेक्षया
प०भा०१४८
॥२६३॥