________________
||
धाख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥२५३॥
भागे वर्त्तन्ते भवनवासिन इति । 'एवं सच्वं भाणियव्वं'ति 'एवम्' उक्तन्यायेनान्यदपि भणितव्यं तच्चेदम्- 'समुग्धारणं लोयस्स असंखेज भागे ति मारणान्तिकादिसमुद्घातवर्त्तिनो भवनपतयो लोकस्यासङ्कधेय एव भागे वर्तन्ते । तथा 'सहाणेणं लोयस्स असंखेजे भागे स्वस्थानस्य - उक्तभवनवास सातिरेककोटीसप्तकलक्षणस्य लोक सङ्घयेयभागवर्त्तित्वादिति, एवमसुरकुमाराणाम् एवं तेषामेव दाक्षिणात्यानामौदीच्यानाम्, एवं नागकुमारादिभवनपतीनां यथौचित्येन व्यन्तराणां ज्योतिष्काणां वैमानिकानां च स्थानानि वाच्यानि, कियद् दूरं यावदित्याह - 'जाव सिद्धे चि यावत्सिद्धगण्डिका- सिद्धस्थानप्रतिपादनपरं प्रकरणं, सा चैवम्- कहिं णं भंते! सिद्धाणं ठाणा पण्णत्ता ?' इत्यादि, इह च देवस्थानाधिकारे यत्सिद्धगण्डिकाभिधानं तस्स्थानाधिकारबलादित्यवसेयं, तथेदमपरमपि जीवाभिगमप्रसिद्धं वाच्यं, तद्यथा - 'कप्पाण पट्ठाणं' कल्पविमानानामाधारो वाच्य इत्यर्थः, स चैत्रम् - - 'सोह|म्मीसाणेसु णं भंते ! कप्पेसु विमाणपुढवी किंपइट्टिया पण्णत्ता ?, गोयमा ! घणोदहिपट्टिया पण्णत्ता' इत्यादि, आह च - "घणउदहिपट्टाणा सुरभवणा होंति दोसु कप्पेसु । तिसु वाउपट्टाणा तदुभयसुपट्टिया तिसु य ॥ १ ॥ तेण परं उवरिमगा आगासंतरपट्टिया सव्वे । "त्ति । तथा 'बाहल्ल'ति विमानपृथिव्याः पिण्डो वाच्यः, स चैवम् – 'सोहम्मीसाणेसु णं भंते ! कप्पे विमाण पुढवी केवइयं बाहल्लेणं पण्णत्ता ?, गोयमा ! 'सत्तावीस सयाई आइमकप्पेसु पुढविवाहलं । एक्किकहाणि सेसे दु दुगे यदुगे चक्के य ॥ १ ॥" ग्रैवेयकेषु द्वाविंशतिर्योजनानां शतानि, अनुत्तरेषु त्वेकविंशतिरिति । 'उच्चत्तमेव 'त्ति कल्पविमानोचत्व वाच्यं, तच्चैवम् — 'सोहम्मीसाणेसु णं भंते! कप्पेसु विमाणा केवइयं उच्चणं पण्णत्ता ?, गोयमा ! पंचजोयणसयाई' इत्यादि, आह च-"पंचस उच्चत्तेणं आइमकप्पेसु होंति उ विमाणा । एक्केकवुड्डि सेसे दु दुगे य दुगे चउके य ॥ १ ॥” ग्रैवेयकेषु दश योजनशतानि
२ शतके
उद्देशः ७ अवधारणी
भवनादयश्व
सू० ११४
॥२५३॥