SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२४॥ २ शतके उद्देशः५ पार्थापत्य वर्णनं सू०१०७ लाघवसंपन्नत्ति लज्जा-प्रसिद्धा संयमो वा लाघवं-द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्यागः, 'ओयंसी'ति 'ओजस्विनो' मान| सावष्टम्भयुक्ताः, 'तेयंसी'ति 'तेजखिनः शरीरप्रभायुक्ताः 'वच्चंसी'ति 'वर्चखिनः' विशिष्टप्रभावोपेताः 'वचखिनो वा विशिष्टवचनयुक्ताः 'जसंसी'ति ख्यातिमन्तः, अनुखारश्चैतेषु प्राकृतत्वात् , 'जीवियासमरणभयविप्पमुक्क'त्ति जीविताशया मरणभयेन च विप्रमुक्ता येते तथा, इह यावत्करणादिदं दृश्यं-'तवप्पहाणा गुणप्पहाणा' गुणाच-संयमगुणाः, तपःसंयमग्रहणं चेह तपःसंयमयोः प्रधानमोक्षाङ्गताऽभिधानार्थ, तथा 'करणप्पहाणा चरणप्पहाणा' तत्र करणं-पिण्डविशुद्धयादि चरणं-व्रतश्रमणधर्मादि 'निग्गहप्पहाणा' | निग्रहः-अन्यायकारिणां दण्डः 'निच्छयप्पहाणा' निश्चयः-अवश्यंकरणाभ्युपगमस्तत्त्वनिर्णयो वा 'महवप्पहाणा अजवप्पहाणा' ननु जितक्रोधादित्वान्माईवादिप्रधानत्वमवगम्यत एव तत्कि मार्दवेत्यादिना?, उच्यते, तत्रोदयविफलतोक्ता, मार्दवादिप्रधानत्वे तूदयाभाव एवेति, 'लाघवप्पहाणा' लाघवं-क्रियासु दक्षत्वं 'खंतिप्पहाणा मुत्तिप्पहाण।' एवं विजामंतवेयबभनयनियमसच्चसोयप्पहाणा' 'चारुपण्णा' | सत्प्रज्ञाः 'सोही' शुद्धिहेतुत्वेन शोधयः सुहृदो वा-मित्राणि जीवानामिति गम्यम् , 'अणियाणा अप्पुस्सुया अबहिलसा सुसामण्णरया अच्छिद्दपसिणवागरणे ति अच्छिद्राणि-अविरलानि निर्देषणानि वा प्रश्नव्याकरणानि येषां ते तथा, तथा 'कुत्तियावणभूयत्ति कुत्रिकं-स्वर्गमर्त्यपाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिक तत्संपादक आपणो-हट्टः कुत्रिकापणस्तद्भूताः समीहितार्थसम्पादनलब्धियुक्तत्वेन सकलगुणोपेतत्वेन वा तदुपमाः, 'सद्धिति साई, सहेत्यर्थः 'संपरिवृत्ताः' सम्यक् परिवारिताः, परिकरभावेन परिकरिता इत्यर्थः, पञ्चभिः श्रमणशतैरेव ॥ . .. तए णं तुगियाए नगरीए सिंघाडगतिगचउक्कचच्चरमहापहपहेसु जाव एगदिसाभिमुहा णिजायंति, तए णं प्र०आ०१३६ ॥२४॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy