SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ॥२३९॥ तत्र देवा - वैमानिका: 'असुरे'ति असुरकुमाराः 'नाग'ति नागकुमाराः, उभयेऽप्यमी भवनपतिविशेषाः, 'सुवण्ण'त्ति सद्वर्णा :ज्योतिष्काः यक्षराक्षंसकिंनरकिंपुरुषाः - व्यन्तरविशेषाः 'गरुल'ति गरुडध्वजाः सुपर्णकुमाराः भवनपतिविशेषाः गन्धर्वा महोरगाथ व्यन्तरविशेषाः 'अणतिक्कमणिज्ज' ति अनतिक्रमणीयाः - अचालनीयाः, 'लद्धट्ट' त्ति अर्थश्रवणात् 'गहिय'ति अर्थावधारणात् 'पुच्छियह 'त्ति सांशयिकार्थप्रकरणात् 'अभिगहियद्व'त्ति प्रश्नितार्थस्याभिगमनात् 'बिणिच्छिय'त्ति ऐदम्पर्याथस्योपलम्भाद्, अत एव 'अट्ठिमिंजपे माणुरागरत्ता' अस्थीनि च - कीकसानि मिखा च तन्मध्यवर्त्ती धातुरस्थि मिजास्ताः प्रेमानुरागेण - सर्वज्ञप्रवचनप्रीतिरूपकुसुम्भादिरागेण रक्ता इव रक्ता येषां ते तथा, अथवाऽस्थिमिजासु जिनशासनगतप्रेमानुगगेण रक्ता ये ते तथा, केनोलेखेन ? इत्याह- 'अयमाउसो' इत्यादि, अयमिति - प्राकृतत्वादिदम् 'आउसो'ति आयुष्मन्निति पुत्रादेरामन्त्रणं 'सेसे 'ति शेषंनिर्ग्रन्थप्रवचनव्यतिरिक्तं धनधान्य पुत्रकलत्रमित्र कुप्रवचनादिकमिति, 'ऊसियफलिह'ति उच्छ्रितम्-उन्नतं स्फटिकमिव स्फटिकं चित्तं येषां ते उच्छ्रितस्फटिकाः, मौनीन्द्र प्रवचनावाप्त्या परितुष्टमानसा इत्यर्थ इति वृद्धव्याख्या, अन्ये त्वाहुः - उच्छ्रितः - अर्गलास्थानादपनीयोवकृतो न तिरवीनः कपाटपश्चाद्भागादपनीत इत्यर्थः परिघः- अर्गला येषां ते उच्छ्रितपरिघाः अथवोच्छ्रितो- गृहद्वारादपगतः परिघो येषां ते उच्छ्रितपरिघाः, औदार्यातिशयादतिशयदानदायित्वेन भिक्षुकाणां गृहप्रवेशनार्थमनर्गलितगृहद्वारा इत्यर्थः, 'अवगुयदुवारे 'ति अप्रावृतद्वारा:- कपाटादिभिरस्थगितगृहद्वारा इत्यर्थः, सद्दर्शनलाभेन न कुतोऽपि पापण्डिकाद्विभ्यति, शोभनमार्गपरिग्रहेगोद्घाटशिरसस्तिष्ठन्तीति भाव इति वृद्धव्याख्या, अन्ये त्वाहुः - भिक्षुकप्रवेशार्थमौदार्यादस्थगितगृहद्वारा इत्यर्थः, 'चियत्तंतेउरघरप्पवेसा' 'चियत्तोत्ति लोकानां प्रीतिकर एवान्तःपुरे वा गृहे वा प्रवेशो येषां ते तथा, अतिधार्मिकतया सर्वत्रानाशङ्कनीयास्त इत्यर्थः, १२ शतके उद्देशः ५ तुंगका श्राद्धवर्णनं सू० १०६ ।।२३९ ।।
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy