________________
व्याख्याप्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥२३८||
चाउदसमुद्दिट्ठपुण्णमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणे समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसेज्जासंधारएणं ओसहभेसळेण य पडिला भेमाणा आहापडिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति ॥ ( सू० १०६ ) ॥
'अड्ड'त्ति आढ्या - धनधान्यादिभिः परिपूर्णाः 'दित्त'ति दीप्ता: - प्रसिद्धाः हप्ता वा दर्पिताः 'विच्छिन्नविपुल भवणसयणासण जाणवाहणाइण्णा' विस्तीर्णानि - विस्तारवन्ति विपुलानि - प्रचुराणि भवनानि - गृहाणि शयनासनयानवाहनैराकीर्णानि येषां ते | तथा, तत्र यानं - गन्त्र्यादि वाहनं तु-अश्वादि, 'बहुधणबहुजायरूवरयया' बहु-प्रभूतं धनं-गणिमादिकं तथा बहु एव जातरूपंसुवर्ण रजतं च-रूप्यं येषां ते तथा, 'आओगपओगसंपउत्ता' आयोगो- द्विगुणादिवृद्ध्याऽर्थप्रदानं प्रयोगश्च - कलान्तरं तौ संप्रयुक्तौ - व्यापारितौ येस्ते तथा, 'विच्छाड्डियविउलभत्तपाणा' विच्छर्द्दितं विविधमुज्झितं बहुलोकभोजनत उच्छिष्टावशेष सम्भवान् विच्छर्दितं वा विविधविच्छित्तिमद्विपुलं भक्तं च पानकं च येषां ते तथा, 'बहुदासीदास गोमहिसागवेल गप्पभूया' बहवो दासीदासा येषां ते गोमहिषगवेलकाच प्रभूता येषां ते तथा, गवेलका - उरभ्राः, 'बहुजणस्स अपरिभूया' बहोलोकस्यापरिभवनीयाः, 'आसवे' त्यादौ क्रियाः - कायिक्यादिकाः 'अधिकरणं' गन्त्रीयन्त्रकादि 'कुसल 'ति आश्रवादीनां हेयोपादेयतास्वरूपवेदिनः, 'असहेज्जे 'त्यादि, अविद्यमानं साहाय्यं - परसाहायकम् अत्यन्तसमर्थत्वायेषां तेऽसाहाय्यास्ते च ते देवादयश्चेति कर्मधारयः, अथवा व्यस्तमेवेदं तेनासाहाय्या - आपद्यपि देवादिसाहायकानपेक्षाः स्वयं कृतं कर्म स्वयमेव भोक्तव्यमित्यदीनमनोवृत्तय इत्यर्थः अथवा पाषण्डिभिः प्रारब्धाः सम्यक्त्वादिचलनं प्रति न परसाहाय्यमपेक्षन्ते, स्वयमेव तत्प्रतिघातसमर्थत्वाज्जिनशासनात्यन्तभावितत्वाच्चेति,
२ शतके उद्देशः ५ तुंगका
प्र० आ०१३४
श्राद्धवर्णन
मू १०६
॥२३८ ॥