SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५५९॥ ७ शतके उद्देशः ६ दुष्षमदुष्पमावर्णनं सू० २८६ | कर्मधारयः, 'समयलुक्खयाए णं' कालरूक्षतया चेत्यर्थः 'अहिय'न्ति अधिकम् 'अहित वा अपथ्यं 'मोच्छंति'त्ति 'मोक्ष्यन्ति' स्रक्ष्यन्ति 'अदुत्तरं चति अथापरं च 'अरममेह'त्ति अरसा-अमनोज्ञा मनोजरसवर्जितजला ये मेघास्ते तथा 'विरसमेह'त्ति विरुद्धरसा मेघाः, एतदेवाभिव्यज्यते-'खारमेह'त्ति सर्जादिक्षारसमानरसजलोपेतमेघाः 'खत्तमेह'त्ति करीषसमानरसजलोपेतमेघाः, 'खट्टमेह'त्ति क्वचिद् दृश्यते तत्राम्लजला इत्यर्थः 'अग्गिमेह'त्ति अग्निवहाहकारिजला इत्यर्थः 'विज्जुमेह'त्ति विद्युत्प्रधाना एव जलवर्जिता इत्यर्थः विद्युन्निपातवन्तो वा विद्युन्निपातकार्यकारिजलनिपातवन्तो वा 'विसमेह'त्ति जनमरणहेतुजला इत्यर्थः 'असणिमेह'त्ति करकादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः 'अपियणिज्जोदग'त्ति अपातम्यजलाः 'अजवणिजोदए'ति क्वचिद् दृश्यते तत्रायापनीयं-न यापनाप्रयोजनमुदकं येषां ते अयापनीयोदकाः 'वाहिरोगवेदणोदीरणापरिणामसलिल'त्ति व्याधयः-स्थिराः कुष्ठादयो रोगा:-सद्योघातिनः शूलादयस्तजन्याया वेदनाया योदीरणा सैव परिणामो यस्य सलिलस्य तत्तथा तदेवंविधं सलिलं येषां ते तथाऽत एवामनोज्ञपानीयकाः 'चंडानिलपहयतिक्खधारानिवायपउति चण्डानिलेन प्रहतानां तीक्ष्णानां-वेगवतीनां धाराणां यो निपातः स प्रचुरो यत्र वर्षे स तथाऽतस्तं 'जेणं'ति येन वर्ण करणभूतेन पूर्वोक्तविशेषणा मेघा विध्वंसयिष्यन्तीति सम्बन्धः 'जणवयंति मनुष्यलोकं 'चउप्पपगवलए'त्ति इह चतुष्पदशब्देन महिष्यादयो गृह्यन्ते गोशब्देन गावः एलकशब्देन तु उरभ्राः 'खहयरेचि खचरांश्च, कान् ? इत्याह-पक्खिसंघत्ति पक्षिसङ्घातान्, तथा 'गामारण्णपयारनिरए'त्ति ग्रामारण्ययोर्यः प्रचारस्तत्र निरता येते तथा तान्, कान् ? इत्याह-'तसे पाणे बहुप्पयारे'त्ति दीन्द्रियादीनित्यर्थः, 'रुक्खे'त्यादि, तत्र वृक्षाः-चूतादयः गुच्छाः-वृन्ताकीप्रभृतयः गुल्मा-नवमालिकाप्रभृतयः लता-अशोकलता ॥५५९॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy