________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥ ५३३॥
4
सधूमं ' संजोयणादोमट्ठस्म'ति संयोजना- द्र यस्य गुणविशेषार्थ द्रव्यान्तरेण योजनं सैव दोषस्तेन दृष्टं यत्तत्तथा तस्य 'जेणं'ति विभक्तिपरिणामाद्यमाहारमाहारयतीति सम्बन्धः 'मुच्छिए'त्ति मोहवान् दोषानभिज्ञत्वात्' गिद्धे'त्ति तद्विशेषाकाङ्गावान् 'गट्टिए'ति तद्गतस्नेहतन्तुभिः संदर्भितः 'अज्झो बन्ने 'ति तदेकाग्रतां गतः 'आहारमाहारेइति भोजनं करोति 'एस णं'ति 'एषः ' आहारः साङ्गारं पानभोजनं, 'महया अप्पत्तियं'ति महदप्रीतिकम् - अप्रेम कोन्हकिलामं ति क्रोधात्क्कुमः- शरीरायासः क्रोधक्कमोडतस्तं, 'गुणुप्पायणहेडं' ति रमविशेषोत्पादनायेत्यर्थः, 'बीइंगालस्स'ति वीतो गतोऽङ्गारो- रागो यस्मात्तद्वीताङ्गारं 'खेत्ताइकंतस्स' त्ति क्षेत्र - सूर्यसम्बन्धि तापक्षेत्रं दिनमित्यर्थः तदतिक्रान्तं यत्तत् क्षेत्रातिक्रान्तं तस्य 'कालाइतम्म'त्ति कालं - दिवसस्य प्रहरत्रयलक्षणमतिक्रान्तं कालातिक्रान्तं तस्य, 'मग्गाइकेतस्स'त्ति अर्द्धयोजनमतिक्रान्तस्य 'पमाणात रस'त्ति द्वात्रिंशत्कवललक्षणं प्रमाणमतिक्रान्तस्य, 'उवाइणावित्त 'त्ति उपादापय्य प्रापय्येत्यर्थः परं 'अद्धजोयण मेराए ति अर्द्धयोजनलक्षणमर्यादायाः परत इत्यर्थः 'वीतिकमावेत्त'त्ति व्यतिक्रमय्य-नीत्वेत्यर्थः 'कुक्कुडिअंडगपमाणमेत्ताणं' ति कुक्कुट्यण्डकस्य यत् प्रमाणं - मानं तत् परिमाणं - मानं येषां ते तथा, अथवा कुकुटीव- कुटीरमित्र जीवस्याश्रयत्वात् कुटी - शरीरं कुत्सिता अशुचिप्रायत्वात् कुटी कुकुटी तस्या अण्डकमिवाण्डकं - उदरपूरकत्वादाहारः कुकुट्यण्डकं तस्य प्रमाणतो मात्रा - द्वात्रिंशत्तमांशरूपा येषां ते कुकुट्यण्डकप्रमाणमात्रा अतस्तेषाम्, अयमभिप्रायः - यावान् यस्य पुरुषस्याहारस्तस्याहारस्य द्वात्रिंशत्तमो भागस्तत्पुरुषापेक्षया कवलः, इदमेव कवलमानमाश्रित्य प्रसिद्ध कवल चतुःषष्ट्यादिमानाहारस्यापि पुरुषस्य द्वात्रिंशता कबलैः प्रमाणप्राप्ततोपपन्ना स्यात् न हि स्वभोजनस्यार्द्धं भुक्तवतः प्रमाप्रातत्वमुपपद्यते, प्रथमव्याख्यानं तु प्रायिकपक्षापेक्षयाऽवगन्तव्यमिति । 'अप्पाहारे'ति अल्पाहारः साधुर्भवतीति गम्यम्.
७ शतके उद्देशः १ वीतांगारा
द्यर्थः
सू० २६८
॥५३३॥