________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥५१२॥
६ शतके उद्देशः८ लवणादेसच्छितोदकादि सू०२४९
निकाचितं वेदयितुमारब्धं बाऽऽयुयैस्ते तथा, एवमन्यान्यपि ५, 'जाइगोयनिहत्ता'इत्यादिः पञ्चमः, तत्र जातेः-एकेन्द्रियादिकाया यदुचितं गोत्रं-नीचैर्गोत्रादि तजातिगोत्रं तन्निधत्तं यैस्ते जातिगोत्रनिधत्ताः एवमन्यान्यपि ५, 'जाइगोयनिहत्ताउया य इत्यादिः षष्ठः, तत्र जातिगोत्रेण सह निधत्तमायुयस्ते जातिगोत्रनिधत्तायुषः, एवमन्यान्यपि ५ 'जाइगोयनिउत्ता'इत्यादिः सप्तमः७ तत्र जातिगोत्रं नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५, 'जाइगोयनिउत्ता'इत्यादिरष्टमः ८ तत्र जातिगोत्रेण सह नियुक्तमायुयस्ते तथा, एक्मन्यान्यपि ५, 'जातिनामगोयनिहत्ता' इत्यादिर्नवमः ९ तत्र जातिनाम गोत्रं च निधत्त यस्ते तथा, एवमन्यान्यपि ५, 'जीवा णं भंते ! किं जाइनामगोयनिहत्ताउया ?' इत्यादिर्दशमः १० तत्र जातिनाम्ना गोत्रेण च सह निधत्तमायुयस्ते तथा, एवमन्यान्यपि ५, 'जाइनामगोयनिउत्ता' इत्यादिरेकादशः ११ तत्र जातिनाम गोत्रं च नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५, 'जीवा णं भंते ! किं जाइनामगोयनिउत्ताउया' इत्यादिज्दशः १२ तत्र जातिनाम्ना गोत्रेण च सह नियुक्तमायुयैस्ते तथा, एवमन्यान्यपि ५ ॥ इह च जात्यादिनामगोत्रयोरायुषश्च भवोपग्राहे प्राधान्यख्यापनार्थ यथायोग जीवा विशेषिताः, वाचनान्तरे चाद्या एवाष्टौ दण्डका दृश्यन्त इति । पूर्व जीवाः स्वधर्मतः प्ररूपिताः, अथ लवणसमुद्रं स्वधर्मत एव प्ररूपयन्नाह
लवणे ण भंते ! समुद्दे किं उस्सिओदए पत्थडोदए खुभियजले अखुभियजले ?, गोयमा! लवणे णं समुद्दे उस्सिओदए, नो पत्थडोदए, खुभियजले, नो अखुभियजले, एत्तो आढत्तं जहा जीवाभिगमे जाव से तेण. गोयमा ! बाहिरया णं दीवममुद्दा पुन्ना पुन्नप्पमाणा वोलट्टमाणा बोसहमाणा समभरघडत्ताए चिट्ठति संठाणओ एगविहिविहाणा वित्थरओ अणेगविहिविहाणा दुगुणादुगुणप्पमाणओ जाव अस्सि तिरियलोए
।।५१२॥