________________
६ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४९०॥
उद्देशः ५ तमस्कायविचारः सू०२४०
| मनुजक्षेत्र एवेति, तृतीयां चेह पञ्चम्यर्थे प्राकृतत्वादिति, 'पलियस्सओ पुण अत्थिति परिपावतः पुनः सन्ति तमस्कायस्य चन्द्रादय इत्यर्थः, 'कादूसणिया पुण सा'इति ननु तत्पार्श्वतश्चन्द्रादीनां सद्भावात्तत्प्रभाऽपि तत्रास्ति ?, सत्यं, केवलं कम्-आत्मानं दूषयति तमस्कायपरिणामेन परिणमनात् कषणा सैव कषणिका, दीर्घता च प्राकृतत्वात् , अतः सत्यप्यसावसतीति, 'काले'त्ति कृष्णः 'कालावभासे'त्ति कालोऽपि कश्चित् कुतोऽपि कालो नावभासत इत्यत आह-कालावभासः कालदीप्तिर्वा 'गंभीरलोमहरिसजणणेति गम्भीरश्चासौ भीषणत्वाद्रोमहर्षजननश्चेति गम्भीररोमहर्षजननः, रोमहर्षजनकत्वे हेतुमाह-'भीम'त्ति भीष्मः 'उत्ता| सणए'त्ति उत्कम्पहेतुः, निगमयन्नाह-'परमे'त्यादि, यत एवमत एवाह-'देवेवि ण'मित्यादि, 'तप्पढमयाए ति दर्शनप्रथमतायां 'खुभाएजत्ति 'स्कम्नीयात्' क्षुभ्येत, 'अहे णमित्यादि अथ 'एन' तमस्कायम् 'अभिसमागच्छेत्' प्रविशेत् ततो भयात् 'सीहंति कायगतेरतिवेगेन 'तुरियं तुरिय'ति मनोगतेरतिवेगात, किमुक्तं भवति ?-क्षिप्रमेव, 'बीइवएजत्ति व्यतिव्रजेदिति ॥ 'तमेति वे'त्यादि, तमः अन्धकाररूपत्वात् इत्येतत् 'वा' विकल्पार्थः, तमस्काय इति वाऽन्धकारराशिरूपत्वात्, अन्धकारमिति वा तमोरूपत्वात् महान्धकारमिति वा महातमोरूपत्वात्, लोकान्धकारमिति वा लोकमध्ये तथाविधस्यान्यस्यान्धकारस्याभावात् एवं | लोकततमिस्रमिति वा देवान्धकारमिति वा देवानामपि तत्रोद्योताभावेनान्धकारात्मकत्वात्, एवं देवतमिश्रमिति वा, देवारण्यमिति | वा, बलवदेवभयानश्यतां देवानां तथा विधारण्यमिव शरणभूतत्वात्, देवव्यूह इति वा देवानां दुर्भेदत्वाद् व्यूह इव-चक्रादिव्यूह इव देवव्यूहः, देवपरिंध इति वा देवानां भयोत्पादकत्वेन गमनविघातहेतुत्वात्, देवप्रतिक्षोभ इति वा तत्क्षोभहेतुत्वात्, अरुणोदक इति वा समुद्रः अरुणोदकसमुद्रजलविकारत्वादिति । पूर्व पृथिव्यादेस्तमस्कायशब्दवाच्यता पृष्टा, अथ पृथिव्यप्कायपर्यायतां पृथिव्य
984%C4--06-
20%
प्र०आ०२६९
C4444
॥४९॥