________________
६ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४८९॥
उद्देशः ५ तमस्कायविचारः सू०२४०
*
उच्चत्वमिति । 'संखेजवित्थडे' इत्यादि, सङ्ख्यातयोजन विस्तृतः, आदित आरभ्योवं सङ्खयेययोजनानि यावत् ततोऽसङ्ख्यातयोजनविस्तृत उपरि तस्य विस्तारगामित्वेनोक्तत्वात्, 'असंखेजाई जोयणसहस्साई परिक्खेवेणं ति सङ्ख्यातयोजनविस्तृतत्वेऽपि | तमस्कायस्थासङ्ख्याततमद्वीपपरिक्षेपतो बृहत्तरत्वात्परिक्षेपस्यासयातयोजनसहस्रप्रमाणत्वम् , आन्तरबहिःपरिक्षेपविभागस्तु नोक्तः, उभयस्याप्यसङ्ख्याततया तुल्यत्वादिति । 'देवे ण'मित्यादि, अथ किंपर्यन्तमिदं देवस्य महद्धर्यादिकं विशेषणम् ? इत्याह-'जाव इणामेवें'त्यादि, इह यावच्छब्द ऐदम्पर्यार्थः, यतो देवस्य महद्धर्यादिविशेषणानि गमनसामर्थ्यप्रकर्षप्रतिपादनाभिप्रायेणैव प्रतिपादितानि 'इणामेवत्तिकदृ' इदं गमनमेवम्-अतिशीघ्रत्वावेदकचप्पुटिकारूपहस्तव्यापारोदर्शनपरम्, अनुस्वाराश्रवणं च प्राकृतत्वात्. द्विवचनं च शीघ्रत्वातिशयोपदर्शनपरमितिः-उपदर्शनार्थः 'कृत्वा' विधायेति 'केवलकप्पंति केवलज्ञानकल्पं परिपूर्णमित्यर्थः, वृद्धव्याख्या तु-केवल:-संपूर्णः कल्पत इति कल्पः-स्वकार्यकरणसमर्थो वस्तुरूप इतियावत, केवलचासौ कल्पश्चेति केवलकल्पस्तं 'तीहिं अच्छरानिवाएहिंति तिसृभिश्चप्पुटिकाभिरित्यर्थः 'तिमत्तखुत्तोत्ति त्रिगुणाः सप्त त्रिसप्त त्रिसप्तवारान् त्रिसप्तकृत्व एकविंशतिवारानित्यर्थः, 'हव्वं'ति शीघ्रम् 'अत्थेगइय'मित्यादि, संख्यातयोजनमानं व्यतिबजेदितरं तु नेति। 'ओराला बलाय'त्ति महान्तो मेघाः 'संसेयंति'त्ति संस्विद्यन्ते तजनकपुद्गलम्नेहसम्पत्त्या, संमूर्च्छन्ति तत्पुद्गलमीलनात्तदाकारतयोत्पत्तेः। 'तं भंतेसि तत् |संस्वेदनं संमृर्छन वर्षणं च । 'बायरे विज्जुयारे'त्ति, इह न बादरतेजस्कायिका मन्तव्याः, इहैव तेषां निषेत्स्यमानत्वात्, किन्तु देवप्रभावजनिता भास्वराः पुद्गलास्त इति,' 'णण्णत्थ विग्गहगईसमावन्नेणं'ति न इति योऽयं निषेधो बादरपृथिवीनेजसोः
यवासजसा सोऽन्यत्र विग्रहगतिसमापनत्वाद् विग्रहगल्यैव चादरे ते भवतः, पृथिवी हि बादरा रत्नप्रभाद्यास्वष्टामु पृथिवीषु गिरिविमानेषु, तेजस्तु |
2-%
%*
॥४८९।।
कर