SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४८८॥ ६ शतके उद्देशः ४ तमस्कायविचारः ०२४० |क्खोभेति वा अरुणोदएत्ति वा समुद्दे ॥ तमुक्काए णं भंते ! किं पुढवीपरिणामे आउपरिणामे जीवपरिणामे | पोग्गलपरिणाम?, गोयमा! नो पुढविपरिणामे, आउपरिणामेवि जीवपरिणामेवि पोग्गलपरिणामेवि । तमुक्काए णं भंते ! सब्वे पाणा भूया जीवा सत्ता पुढविकाइत्ताए जाव तसकाइयत्ताए उववन्नपुव्वा ?, हंता गोयमा! | असतिं अदुवा अणंतखुत्तो, णो चेव ण बादरपुढविकाइयत्ताए बादरअगणिकाइत्ताए वा (सूत्रं २४०) _ 'किमिय'मित्यादि, 'तमुक्काए'त्ति तमसां-तमिश्रपुद्गलानां कायो-राशिस्तमस्कायः, 'स च नियत एवेह स्कन्धः कश्चिद्विव- | क्षितः, स च तादृशः पृथ्वीरजःस्कन्धो वा स्यादुदकरजःस्कन्धो वा न त्वन्यस्तदन्यस्यातादृशत्वादिति पृथिव्यविषयसन्देहादाह"किं पुढवी'त्यादि, व्यक्तं, 'पुढविकाए णमित्यादि, पृथिवीकायोऽस्त्येककः कश्चिच्छुभो-भास्वरः, यः किंविधः ? इत्याह-देशं विवक्षितक्षेत्रस्य प्रकाशयति भास्वरत्वान्मण्यादिवत्, तथाऽस्त्येककः पृथिवीकायो देश-पृथवीकायान्तरं प्रकाश्यमपि न प्रकाशयत्यभा| स्वरत्वादन्धोपलवत, नैवं पुनरप्कायस्तस्य सर्वस्याप्यप्रकाशत्वात्, ततश्च तमस्कायस्य सर्वथैवाप्रकाशकत्वादप्कायपरिणामतैव 'एगपएसियाए'त्ति एक एव च, न द्यादयः, उत्तराधर्य प्रति प्रदेशो यस्यां सा तथा तया, सममित्तितयेत्यर्थः, न च वाच्यमेकप्रदेशप्रमाण| येति, असङ्ख्यातपदेशावगाहस्वभावत्वेन जीवानां तस्यां जीवावगाहाभावमसङ्गात्, तमस्कायस्य च स्तिबुकाकाराप्कायिकजीवात्मकत्वात, बाहल्यमानस्य च प्रतिपादयिष्यमाणत्वादिति, 'इत्थ जति प्रज्ञापकालेख्यलिखितस्यारुणोदसमुद्रादेरधिकरणतोपदर्शनार्थमुक्तत्वात, 'अहे' इत्यादि, अधः-अधस्तान्मल्लकमूलसंस्थितः-शरावबुध्नसंस्थानः, समजलान्तस्योपरि सप्तदश योजनशतान्येकविंशत्यधिकानि यावद्वलयसंस्थानत्वात्, स्थापना च। 'केवइयं विक्खंभेणं ति विस्तारेण, क्वचिद् 'आयामविक्वंभेणं'ति दृश्यते, तत्र चायाम प्र०आ०२६८ ॥४८८॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy