SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४८३ ॥ योग्यानि द्रव्याणि गृहीत्वौदारिकादिभावेन परिणमयति तस्य करणस्य निर्वृत्तिः शरीरपर्याप्तिरिति तथा येन करणेनैकादीनामिन्द्रियाणां प्रायोग्याणि द्रव्याणि गृहीत्वाऽऽत्मीयान् विषयान् ज्ञातुं समर्थो भवति तस्य करणस्य निर्वृत्तिरिन्द्रियपर्याप्तिः, तथा येन करणेनान गणप्रायोग्याणि द्रव्याण्यवलम्ब्यावलम्ब्यान प्राणतया निस्रष्टुं समर्थो भवति तस्य करणस्य निर्वृत्तिरानप्राणपर्याप्तिरिति, तथा | येन करणेन सत्यादिभाषा प्रायोग्याणि द्रव्याण्यवलम्व्यावलम्ब्य चतुर्विधया भाषया परिणमय्य भाषानिसर्जनसमर्थो भवति तस्य करणस्य निष्पत्तिर्भाषापर्याप्तिः, तथा येन करणेन चतुर्विधमनोयोग्यानि द्रव्याणि गृहीत्वा मननसमर्थो भवति तस्य करणस्य निष्पत्तिमनःपर्याप्तिरिति । 'आहार अप्पजत्ती ए' इत्यादि, इह जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्वेत्येक एव भङ्गकोऽनवरतं विग्रहगतिमतामाहारपर्याप्तिमतां च बहूनां लाभात्, शेषेषु च षड् भङ्गाः पूर्वोक्ता एवाहारपर्याप्तिमतामल्पत्वात्, 'सरीर अप्पज्जत्तीए' इत्यादि, इह जीवेष्वेकेन्द्रियेषु चैक एवं सङ्गोऽन्यत्र तु त्र्यं, शरीराद्यपर्याप्तकानां कालतः सप्रदेशानां सदैव लाभात् अप्रदेशानां च कदाचिदेकादीनां च लाभात्, नारकदेवमनुष्येषु च षडेवेति, 'भासे'त्यादि, भाषामनः पर्याप्त्याऽपर्याप्तकास्ते येषां जातितो भाषामनोयोग्यत्वे सति तदसिद्धिः, ते च पञ्चेन्द्रिया एव, यदि पुनर्भाषामनसोऽभावमात्रेण तदपर्याप्तका अभविष्यंस्तदै केन्द्रिया अपि ते भविव्यंस्ततश्च जीवपदे तृतीय एव भङ्गः स्यात्, उच्यते च - 'जीवाइओ तियभंगो'त्ति, तत्र जीवेषु पञ्चेन्द्रियतिर्यक्षु च बहूनां तदपर्याप्तिं प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां लाभात् पूर्वोक्तमेव भङ्गत्रयं, 'नेरइयदेवमणुपस छन्भंग'त्ति नैरयिकादिषु मनोऽपर्याप्तिकानामल्पतरत्वेन सप्रदेशानामेकादीनां लाभात् तएव षड् भङ्गाः, एषु च पर्याप्त्यपर्याप्तिदण्डकेषु सिद्धपदं नाध्येयमसम्भवादिति ॥ पूर्वोक्तद्वाराणां सङ्ग्रहगाथा - 'सपए से 'त्यादि, 'सपएस' ति कालतो जीवाः सप्रदेशाः इतरे चकत्वबहुत्वाभ्यामुक्ताः, ' आहारग' ६ शतके उदेशः ४ जीवादीनां सप्रदेशा प्रदेशत्वे मृ० २३८ ॥ ४८३ ॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy