________________
व्याख्या
प्रज्ञप्तिः अभयदेवी
या वृत्तिः
॥४८२ ॥
तृतीयभङ्ग एव, बहूनां प्रतिपन्नानां प्रतिपद्यमानानां चानुक्षणं लाभाद, शेषेषु भङ्गकत्रयं, बहूनां तेषु प्रतिपन्नानां तथैौदारिकवैक्रियत्यागेनौदारिकं वैक्रियं च प्रतिपद्यमानानामेकादीनां लाभात्, इहौदारिकदण्डकयोर्नारका देवाश्च न वाच्याः, वैक्रियदण्डकयोस्तु पृथिव्यप्तेजोवनस्पतिविकलेन्द्रिया न वाच्याः, यश्च वैक्रियदण्ड के एकेन्द्रियपदे तृतीयभङ्गोऽभिधीयते स वायुनामसङ्ख्यातानां प्रतिसमयं वैक्रियकरणमाश्रित्य तथा यद्यपि पञ्चेन्द्रियतिर्यञ्चो मनुष्याश्च वैक्रियलब्धिमन्तोऽल्पे तथाऽपि भङ्गकत्रयवचनसामर्थ्याद् बहूनां वैक्रियावस्थानसम्भवः तथैकादीनां तत्प्रतिपद्यमानता चावसेया, 'आहारगे' त्यादि, आहारकशरीरे जीवमनुष्ययोः षड् भङ्गकाः पूर्वोक्ता एव, आहारकशरीरिणामल्पवात् शेषजीवानां तु तन्न संभवतीति, 'तेयगे'त्यादि, तैजसकार्मणशरीरे समाश्रित्य जीवादयस्तथा वाच्या यथौधिकास्त एव, तत्र च जीवाः सप्रदेशा एव वाच्याः, अनादित्वात्तैजसादिसंयोगस्य, नारकादयस्तु त्रिभङ्गाः, एकेन्द्रियास्तु तृती यभङ्गाः, एतेषु च शरीरादिदण्डकेषु सिद्धपदं नाध्येयमिति, 'अमरीरे'त्यादि अशरीरेषु जीवादिषु सप्रदेशतादित्वेन वक्तव्येषु जीवसि - पदयोः पूर्वोक्ता त्रिभङ्गी वाच्या, अन्यत्राशरीरत्वस्याभावादिति । 'आहारपज्जत्तीए' इत्यादि, इह च जीवपदे पृथिव्यादिपदेषु च बहूनामाहारादिपर्याप्तीः प्रतिपन्नानां तदपर्याप्तित्यागेनाहारपर्याप्त्यादिभिः पर्याप्तिभावं गच्छतां च बहूनामेव लाभात्सप्रदेशाश्चाप्रदेशाश्वेत्येक एव भङ्गः, शेषेषु तु त्रयो भङ्गा इति, 'भासामणेत्यादि, इह भाषामनसोः पर्याप्तिर्भाषामनः पर्याप्तिः, भाषामनः पर्याप्त्योस्तु बहुश्रुताभिमतेन केनापि कारणेनैकत्वं विवक्षितं, ततश्च तथा पर्याप्तका यथा सञ्ज्ञिनस्तथा सप्रदेशादितया वाच्याः, सर्वपदेषु भङ्गकत्रयमित्यर्थः, पञ्चेन्द्रियपदान्येव चेह वाच्यानि, पर्याप्तीनां चेदं स्वरूपमाहुः - येन करणेन युक्तमाहारं खलं रसं च कर्त्तुं समर्थो भवति तस्य करणस्य निष्पत्तिराहारपर्याप्तिः करणं शक्तिरिति पर्यायौ, तथा शरीरपर्याप्तिर्नाम येन करणेनौदारिकवैक्रियाहारकाणां
६ शतके उद्देशः ४ जीवादीनां |सप्रदेशा
प्रदेशत्वे
सू० २३८
प्र०आ०२६५ ॥४८२ ॥