SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४८१॥ 35**4% प्र०आ०२६४ ६ शतके उदेशः४ जीवादीनां सप्रदेशाप्रदेशत्वे | सू० २३८ - - योगत्रयदण्डकेषु जीवादिपदानि यथासम्भवमध्येयानि सिद्धपदं च न वाच्यमिति 'अजोगी जहा अलेस'ति दण्डकद्वयेऽप्यलेश्यसमवक्तव्यत्वात्तेषां, ततो द्वितीयदण्डकेऽयोगिषु जीवसिद्धपदयोभङ्गकत्रयं मनुष्येषु च षड्भङ्गीति ॥ 'सागारे'त्यादि साकारोपयुक्तेष्वनाकारोपयुक्तेषु च नारकादिषु त्रयो भङ्गाः, जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक एवं, तत्र चान्यतरोपयोगादन्यतरगमने प्रथमेतरसमयेष्वप्रदेशत्वसप्रेदशत्वे भावनीये, सिद्धानां त्वेकसमयोपयोगित्वेऽपि साकारस्येतरस्य चोपयोगस्यासकृत्माप्त्या सप्रदेशत्वं सकृत्प्राप्त्या चाप्रदेशत्वमवसेयम् , एवं चासकृदवाप्तसाकारोपयोगान् बहूनाश्रित्य सप्रदेशा इत्यको भङ्गः, तानेव सकदवाप्तसाकारोपयोगं चैकमाश्रित्य द्वितीयः, तथा तानेव सकृदवाप्तसाकारोपयोगांश्च बहूनधिकृत्य तृतीयः, अनाकारोपयोगे त्वसकृत्प्राप्तानाकारोपयोगानाश्रित्य प्रथमः, तानेच सकृत्प्राप्तानाकारोपयोगं चैकमाश्रित्य द्वितीयः, उभयेषामप्यनेकत्वे तृतीय इति । 'मवेगा जहा सकसाइ'त्ति सवेदानामपि जीवादिपदेषु भङ्गकत्रयभावात्, एकेन्द्रियेषु चैकभङ्गसद्भावात, इह च वेदप्रतिपन्नान् बहन श्रेणिभ्र शे च वेदं प्रतिपद्यमानकादीनपेक्ष्य भङ्गकत्रयं भावनीयम् , 'इत्थीवेयगे'त्यादि, इह वेदावेदान्तरसङ्घान्तौ प्रथमे समयेऽप्रदेशत्वमितरेषु च सप्रदेशत्वमवगम्य भङ्गकत्रयं पूर्ववद्योज्यं,नपुंसकवेददण्डकयोस्त्वेकेन्द्रियेष्वेको भङ्गः सप्रदेशाश्चाप्रदेशाश्चेत्येवंरूपःप्रागुक्त युक्ते रेवेति,स्त्रीःण्डकपुरुषदण्ड केषु देवपश्चेन्द्रियतिर्यग्मनुष्यपदान्येव, नपुंसकदण्डकयोस्तु देववर्जानि वाच्यानि, सिद्धपदं च सर्वेष्वपि न वाच्यमिति, 'अवेयगा जहा अकमाईत्ति जीवमनुष्यसिद्धपदेषु भङ्गकत्रयमकपायिवद्वाच्यमित्यर्थः 'ससरीरी जहा ओहिओ'त्ति औधिकदण्डकवत्सशरीरिदण्डकयोर्जीवपदे सप्रदेशतैव वाच्याऽनादित्वात्सशरीरत्वस्य, नारकादिषु तु बहुत्वे भङ्गकत्रयमेकेन्द्रियेषु तृतीयभङ्ग इति, 'ओरालियवेउब्वियसरीराणं जीवेगिंदियवज्जो तियभंगोंति औदारिकादिशरीरिसत्त्वेषु जीवपदे एकेन्द्रियपदेषु च बहवे 4 - - -%A4-% -- ॥४८१॥ P4-16
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy