________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४६॥
*****
६ शतके उद्देशः ४ जीवादीनां सप्रदेशाप्रदेशत्वे सू०२३८
मत्यज्ञानान्मतिज्ञानं श्रुताज्ञानाच श्रुतज्ञानं प्रतिपद्यमानानामेकादीनां लाभात्सप्रदेशाचाप्रेदशश्च तथा सप्रदेशाश्च अप्रदेशाश्चेति द्वावित्येवं त्रयमिति । 'विगलेंदिएहिं छन्भंग'त्ति द्वित्रिचतुरिन्द्रियेषु सासादनसम्यक्त्वसम्भवेनाभिनिबोधिकादिज्ञानिनामेकादीनां सम्भवात्त एव षड् भङ्गाः, इह च यथायोगं पृथिव्यादयः सिद्धाश्च न बाच्याः, असम्भवादिति, एवमवध्यादिष्वपि भङ्गत्रयभावना, केवलमवधिदण्डकयोरेकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्याः, मनःपर्यायदण्डकयोस्तु जीवा मनुष्याश्च वाच्याः, केवलदण्डकयोस्तु जीवमनुष्यसिद्धा वाच्याः, अत एव वाचनान्तरें दृश्यते 'विण्णेयं जस्स जं अत्थि'त्ति । 'ओहिए अन्नाणे' इत्यादि, सामान्येऽज्ञाने | मत्यज्ञानादिभिरविशेषिते मत्यज्ञाने श्रुताज्ञाने च जीवादिषु त्रिभङ्गी भवति, एते हि सदाऽवस्थितत्वात्सप्रदेशा इत्येकः, यदा तु तदन्ये | ज्ञानं विमुच्य मत्यज्ञानादितया परिणमन्ति तदैकादिसम्भवेन सप्रदेशाश्वाप्रदेशश्चेत्यादिभगद्वयमित्येवं भङ्गात्रयमिति, पृथिव्यादिषु तु सप्रेदशाश्चाप्रदेशाश्चेत्येक एवेत्यत आह-एगिदियवज्जो तियभंगों'त्ति, इह च त्रयेऽपि सिद्धा न वाच्याः, विभंगे तु जीवादिषु मंगत्रयं, तद्भावना च मत्यज्ञानादिवत्. केवलमिहेकेन्द्रियविकलेन्द्रियाः सिद्धाश्च न वाच्या इति, 'सजोई जहा ओहिओ'त्ति सयोगी जीवादिदण्डकद्वयेऽपि तथा वाच्यो यथौधिको जीवादिः, स चैवम्-सयोगी जीवो नियमात्सप्रदेशो नारकादिस्तु सप्रदेशोदेशो |वा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः, एकेन्द्रियाः पुनस्तृतीयभंगा इति, इह सिद्धपदं नाध्येयं, 'मणजोई इत्यादि, मनोयोगिनो योगत्रयवन्तः, सचिन इत्यर्थः, वाग्योगिन एकेन्द्रियवर्जाः, काययोगिनस्तु सर्वेऽप्येकेन्द्रियादयः, एतेषु च जीवादिषु त्रिविधो भंगः, तद्भावना च मनोयोग्यादीनामवस्थित्वे प्रथमः, अमनोयोगित्वादित्यागाच्च मनोयोगित्वाद्युत्पादेनाप्रशदेवलाभेऽन्यद्भङ्गकद्वयमिति, नवरं काययोगिनो ये एकेन्द्रियास्तेष्वभंगकं, सप्रदेशा अप्रदेशाश्त्येक एव भंगक इत्यर्थः, एतेषु च
***
*