________________
व्याख्या
प्रज्ञप्तिः
अभयदेवी
या वृत्तिः
॥४७९॥
प्रच्यवमानत्वे सकषायत्वं प्रतिपद्यमाना एकादयो लभ्यन्ते ततश्च समदेशाश्चाप्रदेशश्च तथा सप्रदेशाश्चाप्रदेशाश्वेत्यपर भङ्गकद्वयमिति, नारकादिषु तु प्रतीतमेव भङ्गकत्रयम्, 'एगिंदिएस अभंगयं' ति अभङ्गकं - भङ्गकानामभावोऽभङ्गकं सप्रदेशाश्चाप्रदेशाश्वेत्येक एव विकल्प इत्यर्थः, बहूनामवस्थितानामुत्पद्यमानानां च तेषु लाभादिति, इह च सिद्धपदं नाध्येयमकषायित्वात्, एवं क्रोधादिदण्डकेष्वपि, 'कोहक| साईहिं जीवेगिंदियवज्जो तियभंगो'त्ति, अयमर्थः क्रोधकषायिद्वितीयदण्ड के जीवपदे पृथिव्यादिपदेषु च सप्रदेशाश्चाप्रदेशाश्चेत्येक एव भङ्गः, शेषेषु त्रयः, ननु सकषायिजीव पदवत्कथमिह भङ्गत्रयं न लभ्यते, उच्यते, इह मानमायालो भेभ्यो निवृत्ताः क्रोधं प्रतिपद्यमाना बहव एव लभ्यन्ते, प्रत्येकं तद्राशीनामनन्तत्वात्, न त्वेकादयो यथोपशमश्रेणीतः प्रच्यवमानाः सकषायित्वं प्रतिपत्तार इति । 'देवेहिं छन्भंग' त्ति देवपदेषु त्रयोदशस्त्रपि षड् भङ्गाः, तेषु क्रोधोदयवतामल्पत्वेनैकत्वे बहुत्वे च सप्रदेशाप्रदेशत्वयोः सम्भवादिति, मानकषायिमायाकषायिद्वितीयदण्डके 'नेरइयदेवेहिं छन्भंग'त्ति नारकाणां देवानां च मध्येऽल्पा एव मानमायोदयवन्तो भवन्तीति पूर्वोक्तन्यायात् षड् भङ्गा भवन्तीति, 'लोहकमाईहिं जीवेगेंदियवज्जो तियभंगो'ति एतस्य क्रोधमुत्रवद्भावना. 'नेरइएहिं छब्भंग'त्ति नारकाणां लोभोदयवतामल्पत्वात्पूर्वोक्ताः षड् भंगा भवन्तीति, आह च - " कोहे माणे माया बोद्धव्वा सुरगणेहिं छभंगा | माणे माया लोभे नेरइएहिपि छन्भंगा ।" १ ॥” देवा लोभप्रचुराः नारकाः क्रोधप्रचुराइति, अकषायिद्वितीय दण्ड के जीवमनुष्य सिद्धपदेषु भङ्गत्रयमन्येषामसम्भवः त्, एतदेवाह - 'अकसाई' इत्यादि । 'ओहियनाणे आभिनिबोहियणाणे सुगनाणे जीवाईओ तियभंगो'ति, औधिकज्ञानं-मत्यादिभिरविशेषितं, तत्र मतिश्रुतज्ञानयोश्च बहुत्वदण्डके जीवादिपदेषु त्रयो भङ्गाः पूर्वोक्ता भवन्ति, तत्रौधिकज्ञानमतिश्रुतज्ञानिनां सदाऽवस्थित्वेन सप्रदेशानां भावात् सप्रदेशा इत्येकः, तथा मिथ्याज्ञानान्मत्यादिज्ञानमात्रं
६ शतके उद्देशः ४ जीवादीनां सप्रदेशा
प्रदेशत्वे
प्र०आ०२६३ मृ० २३८
| ॥ ४७९ ॥