SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४७८॥ ६ शतके उद्दशः ४ जीवादीनां समदेशाप्रदेशत्वे सू०२३८ | सप्रदेशत्वं, तत्र द्वितीयदण्डके जीवादिपदेषु त्रयो भङ्गाः तथैव, विकलेन्द्रियेषु तु षड्, यतस्तेषु सासादनसम्यग्दृष्टय एकादयः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्ते अतः सप्रदेशत्वाप्रदेशत्वयोरेकत्वबहुत्वसम्भव इति, एतदेवाह-'सम्मदिट्ठीहिं'इत्यादि, इहैकेन्द्रियपदानि न वाच्यानि, तेषु सम्यग्दर्शनाभावादिति, 'मिच्छद्दिट्ठीहिं'इत्यादि, मिथ्यादृष्टिद्वितीयदण्ड के जीवादिपदेषु तु त्रयो भङ्गा मिथ्यात्वं प्रतिपन्ना बहवः सम्यक्त्वभ्रंशे तत्पतिपद्यमानाश्चैकादयः सम्भवन्तीतिकृत्वा, एकेन्द्रियपदेषु पुनः सप्रदेशाश्वाप्रदेशाश्चेत्येक एव, तेष्ववस्थितानामुत्पद्यमानानां च बहूनामेव भावादिति, इह च सिद्धा न वाच्याः, तेषां मिथ्यात्वाभावादिति, सम्यग्मिथ्यादृष्टिबहुत्वदण्डके 'सम्मामिच्छट्टिीहिं छन्भंगा'अयमर्थः-सम्यग्मिथ्यादृष्टित्वं प्रतिपन्नकाः प्रतिपद्यमानाश्चैकादयोऽपि लभ्यन्त इत्यतस्तेषु षड् भङ्गा भवन्तीति, इह चैकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यान्यसम्भवादिति । 'संजएहि इत्यादि, 'संयतेषु' संथतशब्दविशेषितेषु जीवादिपदेषु त्रिकभङ्गः, संयम प्रतिपन्नानां बहूनां प्रतिपद्यमानानां चैकादीनां भावात् , इह च जीवपदमनुष्यपदे एव वाच्ये, अन्यत्र संयतत्वाभावादिति, असंयतद्वितीयदण्डके-'असंजएही'त्यादि. इहासंयतत्वं प्रतिपन्नानां बहूनां संयतत्वादिप्रतिपा| तेन तत्प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रयं, एकेन्द्रियाणां तु पूर्वोक्तयुक्त्या सप्रदेशाश्चाप्रदेशाश्चैक एव भङ्गः इति, इह सिद्धपदं नाध्येयमसम्भवादिति । संयतासंयतबहुत्वदण्डके 'संजयासंजएहिं' इत्यादि, इह देशविरतिं प्रतिपन्नानां बहूनां संयमादसंयमाद्वा निवृत्य तां प्रतिपद्यमानानां चैकादीनां भावाद्भङ्गकत्रयसम्भवः, इह जीवपञ्चेन्द्रियतियग्मनुष्यपदान्येवाध्येयानि, तदन्यत्र संयतासंयतत्वस्याभावादिति । 'नोसंजए'त्यादौ सैव भावना, नवरमिह जीवसिद्धपदे एव वाच्ये, अत एवोक्तं 'जीवसिद्धेहिं तियभंगो'त्ति। 'सकसाईहिं जीवाहओ तियभंगो'त्ति, अयमर्थः-सकषायाणां सदाऽवस्थितत्वात्ते सप्रदेशा इत्येको भङ्गः, तथोपशमश्रेणीतः ॥४७८॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy