________________
६ शतके उमेशः४ जीवादीनां सप्रदेशाप्रदेशत्वे मृ०२३८
वतयाऽवसेयं, तथा नैरयिकादिष्वसज्ञित्वस्य कादाचिकत्वेनैकत्वबहुत्वसम्भवात् पड् भङ्गा भवन्ति, ते च दर्शिता एव, एतदेवाहव्यख्यिा
| 'नेरइयदेवमणुए' इत्यादि, ज्योतिष्कवैमानिकसिद्धास्तु न वाच्यास्तेषामसज्ञित्वस्थासम्भवात , तथा नोसज्ञिनोअसज्ञिविशेषणदण्ड-| प्रज्ञप्तिः
कयोर्द्वितीयदण्डके जीवमनुजसिद्धपदेपृक्तरूपं भङ्गकत्रयं भवति, तेषु बहूनामवस्थितानां लाभादुत्पद्यमानानां चैकादीनां सम्भवादिति, अभयदेवीया वृत्तिः
राएतयोश्च दण्डकयो वमनुजसिद्धपदान्येव भवन्ति,नारकादिपदानां नोसञीनोअसञीतिविशेषणस्याघटनादिति.सलेश्यदण्डकद्वये औधि॥४७७॥
कदण्डकवज्जीवनारकादयो बाच्याः, सलेश्यतायां जीवत्ववदनादित्वेन विशेषानुत्पादकन्वात. केवलं सिद्धपदं नाधीयते, सिद्धानामलेइयत्वादिति, कृष्णलेश्या नीललेश्याः कापोतलेश्याश्च जीवनारकादयः प्रत्येकं दण्डकद्वयेनाहारकजीवादिवदपयुज्य वाच्याः, केवलं यस्य जीवनारकादेरेताः सन्ति स एव वाच्यः, एतदेवाह-'कण्हलेसे'त्यादि, एताश्च ज्योतिष्कवैमानिकानां न भवन्ति, सिद्धानां तु | सर्वा न भवन्तीति तेजोलेश्याद्वितीयदण्डके जीवादिपदेषु त एव त्रयो भङ्गाः पृथिव्यबबनस्पतिषु पुनः षड् भङ्गाः, यत एतेषु तेजो
लेश्या एकादयो देवाः पूर्वोत्पन्ना उत्पद्यमानाश्च लभ्यन्त इति सप्रदेशानामप्रदेशानां चैकत्वबहुत्वसम्भव इति, एतदेवाह-'तेउलेसाए' | इत्यादि, इह नारकतेजोवायुविकलेन्द्रियसिद्धपदानि न वाच्यानि, तेजोलेश्याया अभावादिति, पद्मलेश्याशुक्ललेश्ययोद्वितीयदण्डके |जीवादिषु पदेषु त एव त्रयो भङ्गकाः, तदेवाह-'पम्हले से'त्यादि, इह च पञ्चेन्द्रियतिर्यग्मनुष्यवैमानिकपदान्येव वाच्यानि, अन्येष्वनयोरभावादिति, अलेश्यदण्डकयोर्जीवमनुष्यसिद्धापदान्येवोच्यन्ते, अन्येषामलेश्यत्वस्थासम्भवात्, तत्र च जीवसिद्धयोभङ्गकत्रयं तदेव, मनुष्येषु तु षड् भङ्गाः, अलेश्यतां प्रतिपन्नानां प्रतिपद्यमानानां चैकादीनां मनुष्याणां सम्भवेन सप्रदेशत्वेऽप्रदेशत्वे चैकत्वबहुत्वसम्भवादिति, इदमेवाह-'अलेसीहि'इत्यादि । सम्यग्दृष्टिदण्डकयोः सम्यग्दर्शनप्रतिपत्तिप्रथमसमयेऽप्रदेशत्वं द्वितीयादिषु तु
आ०२६२
॥४७७॥