SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ध्याख्याप्रज्ञप्तिः अभयदवी या वृत्तिः ॥४७६॥ ६ शतके . उद्देशः ४ जीवादीनां | सपदेशाप्रदेशत्वे सू०२३८ च लाभात्, नारकादीनां द्वीन्द्रियादीनां च स्तोकतराणामुत्पादः, तत्र चैकद्वयादीनामनाहारकाणां भावात् षड्भङ्गिकासम्भवः, तत्र | द्वौ बहुवचनातौ अन्ये तु चत्वार एकवचनबहुवचनसंयोगात् केवलैकवचनभङ्गकाविह न स्तः, पृथक्त्वस्याधिकृतत्वादिति । 'सिद्धेहिं तियभंगो'त्ति सप्रदेशपदस्य बहुवचनान्तस्यैव सम्भवात्, 'भवसिद्धी य अभवसिद्धी य जहा ओहिय'त्ति, अयमर्थः-ओधिकदण्डकवदेषां प्रत्येकं दण्डकद्वयं, तत्र च भव्योऽभव्यो वा जीवो नियमात्सप्रदेशः, नारकादिस्तु सप्रदेशोऽप्रदेशो वा, बहवस्तु जीवाः सप्रदेशा एव, नारकाद्यास्तु त्रिभङ्गवन्तः, एकेन्द्रियाः पुनः सप्रदेशाश्चाप्रदेशाश्चेत्येकभङ्ग एवेति, सिद्धपदं तु न वाच्यं, सिद्धानां भव्याभव्यविशेपणानुपपत्तेरिति । तथा 'नोभवसिद्धियनोअभवसिद्धिय'त्ति एतद्विशेषणं जीवादिदण्डकद्वयमध्येयं, तत्र चाभिलापः'नोभवसिद्धिएनोअभवसिद्धिए णं भंते ! जीवे सप्पएसे अप्पएसे ?' इत्यादि, एवं पृथक्त्वदण्डकोऽपि, केवलमिह जीवपदं सिद्धपदं | चेति द्वयमेव, नारकादिपदानां नोभव्यनोअभव्यविशेषणस्यानुपपत्तेरिति, इह च पृथक्त्वदण्डके पूर्वोक्तं भङ्गकत्रयमनुसतव्यमत | एवाह-'जीवसिद्धेहिं तियभंगो'ति । सज्ञिषु यो दण्डको तयोद्वितीयदण्डके जीवादिपदेषु भङ्गत्रयं भवतीत्यत आह-'सण्णीहिं' इत्यादि, तत्र सचिनो जीवाः कालतः सप्रदेशा भवन्ति, चिरोत्पन्नानपेक्ष्य उत्पादविरहानन्तरं चैकस्योत्पत्तौ तत्प्राथम्ये सप्रदेशाश्चाप्रदेशश्चेति स्यात्,बहूनामुत्पत्तिप्राथम्ये तु सप्रदेशाश्चाप्रदेशाश्चेति स्यात्, तदेवं भङ्गकत्रयमिति, एवं सर्वपदेषु,केवलमेतयोर्दण्डकयोरेकेन्द्रियविकलेन्द्रियसिद्धपदानि न वाच्यानि तेषु सज्ञिविशेषणस्यासम्भवादिति, 'असन्नीहिं'इत्यादि, अयमर्थः-असज्ञिपु-असज्ञिविषये द्वितीयदण्डके पृथिव्यादिपदानि वर्जयित्वा भङ्गकत्रयं प्राग् दर्शितमेव वाच्यं, पृथिव्यादिपदेषु हि सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, सदा बहूनामुत्पत्या तेषामप्रदेशबहुत्वस्यापि सम्भवात् , नैरयिकादीनां च व्यन्तरान्तानां सञ्जिनामप्यसज्ञित्वमसज्ञिभ्य उत्पादाद्भूतभा |४७६॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy