SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवी या वृत्तिः ॥४६८॥ ६ शतके उद्देशः ३ स्त्र्यादीनां ज्ञानावर दृष्टिमिश्रदृष्टी तु बध्नीत एवेति, 'आउए हेट्ठिल्ला दो भगणाए ति सम्यग्दृष्टिमिध्यादृष्टी आयुः स्याद्वध्नीत इत्यर्थः, तथाहिसम्यग्दृष्टिरपूर्वकरणादिरायुर्न बध्नाति इतरस्तु आयुर्बन्धकाले तद् बध्नाति अन्यदा तु न बध्नाति, एवं मिथ्यादृष्टिरपि, मिश्रदृष्टिस्त्वा - युर्न बध्नात्येव तद्बन्धाध्यवसायस्थानाभावादिति । सञ्ज्ञिद्वारे 'सन्नी सिय बंध'त्ति 'सञ्ज्ञी' मनःपर्याप्तियुक्तः, स च यदि वीतरागस्तदा ज्ञानावरणं न बध्नाति यदि पुनरितरस्तदा बध्नाति ततः स्यादित्युक्तम्, 'असण्णी बंधइ' त्ति मनःपर्याप्तिविकलो बघ्नात्येव 'नोसन्नीनो असन्नित्ति केवली सिद्धश्च न बध्नाति, हेत्वभावात्, 'वेयणिज्जं हेट्ठिल्ला दो बंधंति'त्ति सम्झी असज्ञी १ णादिवन्धाच वेदनीयं बध्नीतः, अयोगिसिद्धवर्जानां तद्बन्धकत्वात्, 'उवरिल्ले भयणाए 'ति उपरितनो नोसव्झीनोअसञ्ज्ञी, स च सयोगा- बन्धौ प्र०आ०२५७ योगकेवली सिद्धश्च तत्र यदि सयोगकेवली तदा वेदनीयं बध्नाति यदि पुनरयोगिकेवली सिद्धो वा तदा न बन्धाति अतो भजनयेमृ० २३६ त्युक्तम्, 'आउगं हेट्ठिल्ला दो भयणाए ति सब्ज्ञी असञ्ज्ञी चायुः स्याद् बध्नीतः अन्तर्मुहूर्त्तमेव तद्बन्धनात्, 'उवरिल्ले न बंधइति केवली सिद्धश्वायुर्न बध्नातीति । भवसिद्धिकद्वारे 'भवसिद्धिए भयणाए ति भवसिद्धिको यो वीतरागः स न बध्नाति ज्ञानावरणं तदन्यस्तु भव्यो बध्नातीति भजनयेत्युक्तं, 'नो भवसिद्धिएनोअभवसिद्धिए 'त्ति सिद्धः, स च न बध्नाति, 'आउयं दो हेहिल्ला भयणाए ति भव्योऽभव्यश्वायुर्वन्धकाले बध्नीतोऽन्यदा तु न बध्नीत इत्यतो भजनयेत्युक्तम्, 'उवरिलेन बंधइ'त्ति सिद्धो न बध्नातीत्यर्थः || दर्शनद्वारे 'हेकिल्ला तिष्णि भयणाए ति चक्षुरचक्षुरवधिदर्शनिनो यदि छद्मस्थवीतरागास्तदा न ज्ञानावरणं बध्नन्ति वेदनीयस्यैव बन्धकत्वात्तेषां, सरागास्तु बध्नन्ति अतो भजनयेत्युक्तम्, 'उवरिल्ले न बंधइ' त्ति केवलदर्शनी भवस्थः सिद्धो वा न बध्नाति हेत्वभावादित्यर्थः, 'वेयणिज्जं हेडिल्ला तिन्नि बंधंति'त्ति आयास्त्रयो दर्शनिनछास्थवीतरागाः ||४६८।।
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy