SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४५१॥ त्ति अनवदग्रः-अनन्तः 'परित्तेत्ति परिमितः प्रदेशतः, अनेन लोकस्यासंख्येयत्वं पार्श्वजिनस्यापि संमतमिति दार्शतम् । तथा | आ०२४८ | 'परिवुडे'त्ति अलोकेन परिवृतः 'हेट्ठा विच्छिन्नेत्ति सप्तरज्जुविस्तृतत्वात् 'मज्झे संखित्ते'त्ति एकरज्जुविस्तारत्वात् 'उप्पिा५शतके विसालेत्ति ब्रह्मलोकदेशस्य पश्चरज्जुविस्तारत्वात्, एतदेवोपमानतः प्राह-'अहे पलियंकसंठिए'त्ति उपरिसङ्कीर्णत्वाधोविस्तृत-15 | उद्देशः९ पावशिष्यत्वाभ्यां 'मज्झे वरवइरविग्गहिए'त्ति वरवज्रवद्विग्रहः-शरीरमाकारो मध्यक्षामत्वेन यस्य स तथा, स्वार्थिकश्चेकप्रत्ययः, 'उप्पि प्रश्न: उद्घमुइंगागारसंठिए'त्ति ऊर्बो न तु तिरश्चीनो यो मृदङ्गस्तस्याकारेण संस्थितो यः स तथा, मल्लकसंपुटाकार इत्यर्थः, मृ०२२६ 'अणता जीवघण'त्ति 'अनन्ताः' परिमाणतः मूक्ष्मादिसाधारणशरीराणां विवक्षितत्वात, सन्तत्यपेक्षया वाऽनन्ताः, जीवसन्ततीनामपर्यवसानत्वात, जीवाश्च ते घनाश्चानन्तपर्यायसमहरूपत्वादसंख्येयप्रदेशपिण्डरूपत्वाच्च जीवधनाः, किमित्याह-'उपजित्ते'ति उत्पद्योत्पद्य 'विलीयन्ते' विनश्यन्ति, तथा 'परीत्ता' प्रत्येकशरीरा अनपेक्षितातीतानागतसन्तानतया' वा सङ्क्षिमाः, जीवधना इत्यादि तथैव, अनेन च प्रश्ने यदुक्तम् 'अणंता राईदिया'इत्यादि तस्योत्तरं मृचितं, यतोऽनन्तपरीत्तजीवसम्बन्धात्कालविशेषा अप्पनन्ताः परीत्ताश्च व्यपदिश्यन्तेऽतो विरोधः परिहृतो भवतीति । अथ लोकमेव स्वरूपत आह-से (नू गं) भूए'त्ति यत्र जीवधना | उत्पद्य २ विलीयन्ते स लोको भूतः-सद्भूतो भवनधर्मयोगात्, स चानुत्पत्तिकोऽपि स्याद् यथा नयमतेनाकाशमत आह-उत्पन्नः, एवंविधश्वानश्वरोऽपि स्याद् यथा विवक्षितघटाभाव इत्यत आह-विगतः, स चानन्धयोऽपि किल भवतीत्यत आह-परिणतः-पर्या| यान्तराणि आपन्नो, न तु निरन्वयनाशेन नष्टः । अथ कथमयमेवंविधो निश्चीयते ? इत्याह-'अजीवेहिंति 'अजीवैः' पुद्गलादिभिः ४५१॥ सत्तां बिभ्रद्भिरुत्पद्यमानैविगच्छद्भिः परिणमद्भिश्च लोकानन्यभूतैः 'लोक्यते' निश्चीयते 'प्रलोक्यते' प्रकर्षेण निश्चीयते, भूतादि
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy