________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४४८॥
५ शतके उशः९ उद्योतान्ध
कारौ मू०२२४
चेयं भावना -एषामेतत्क्षेत्रे सत्यपि रविकरादिसंपर्के एषां चक्षुरिन्द्रियाभावेन दृश्यवस्तुनो दर्शनाभावाच्छुभपुद्गलकार्याकरणेनाशुभाः पुद्गला उच्यन्ते, ततश्चैषामन्धकारमेवेति । 'चउरिंदियाणं सुभासुभे पोग्गले'त्ति एषां हि चक्षुःसद्भावे रविकरादिसावे दृश्या
विबोधहेतुत्वाच्छुभाः पुद्गलाः, रविकराद्यभावे त्वर्थावबोधाजनकत्वादशुभा इति ॥ पुद्गला द्रव्यमिति तच्चिन्ताऽनन्तरं कालद्रव्य| चिन्तामुत्रम् -'तत्थ गया'ति नरके स्थितैः षष्ठ्यास्तृतीयार्थत्वात् , 'एवं पण्णायति'त्ति एवं हि प्रज्ञायते 'समयाइ वत्ति समया इति वा 'इहं तेसिंति 'इह' मानुष्यक्षेत्रे 'तेषां समयादीनां 'मान' परिमाणम्, आदित्यगतिसमभिव्यङ्गयत्वात्तस्य, आदित्यगतेश्च मनुष्यक्षेत्र एव भावात्, नरकादौ स्वभावादिति, इहं तेसिं पमाणति 'इह' मनुष्यक्षेत्रे तेषां--समयादीनां प्रमाणंप्रकृष्टं मानं, सूक्ष्ममानमित्यर्थः, तत्र मुहूस्तावन्मानं तदपेक्षया लवः सूक्ष्मत्वात्प्रमाणं तदपेक्षया स्तोकः प्रमागं लवस्तु मानमित्येवं नेयं | यावत्समय इति, ततश्च 'इहं तेमि'मित्यादि, 'इह' मर्त्यलोके मनुजैस्तेषां-समयादीनां सम्बन्धी 'एवं' वक्ष्यमाणस्वरूपं समयत्वाद्येव ज्ञायते, तद्यथा--'समया इति वे' त्यादि, इह च समयक्षेत्राद् बहिवर्तिनां सर्वेषामपि समयाद्यज्ञानमवसेयं, तत्र समयादिकालस्याभावेन तद्वयवहाराभावात्, तथा पञ्चन्द्रियतिर्यञ्चो भवनपतिव्यन्तरज्योतिष्काश्च यद्यपि केचित् मनुष्यलोके सन्ति तथापि तेऽल्पाः प्रायस्तदव्यवहारिणश्च इतरे तु बहव इति तदपेक्षया ते न जानन्तीत्युच्यत इति ॥ कालनिरूपणाधिकाराद्रात्रिन्दिवलक्षणविशेषकालनिरूपणार्थमिदमाह--
तेणं कालेणं २ पासावचिजा [ते थेरा भगवंतो जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति २ समणस्म भगवओ महावीरस्स अदूरसामंते ठिचा एवं वदासी--से नूर्ण भंते ! असंखजे लोग अणंता रातिदिया अप्प
॥४४८॥