________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४४४॥
५ शतके उदशः८ जीवादीनां वृध्ध्यादि मू०२२२
सिद्धा णं भंते ! केवतिय कालं सोवचया?, गोयमा !जह० एक समयं उक्को अट्ट समया, केवतियं कालं निरुवचय निरवचया ?, जह० एकं उ० छम्मासा । सेवं भंते २॥ (मूत्रं २२१)॥ पंचमसए अट्ठमो उद्देसो संमत्तो ॥२-८।।
'जीवा ण'मित्यादि, 'नेरइया णं भंते ! केवतियं कालं अवढिया ?, गोयमा! जहन्नेणं एक समयं उक्कोसेणं चउवीसमुहुत्तंति, कथं ?, सप्तस्वपि पृथिवीषु द्वादश मुहूर्तान् यावन्न कोऽप्युत्पद्यते उद्वत्तते बा, उत्कृष्टतो विरहकालस्यैवंरूपत्वात्, अन्येषु पुनादशमुहूर्तेषु यावन्त उत्पद्यन्ते तावन्त एवोद्वर्त्तन्त इत्येवं चतुर्विंशतिमुहूर्त्तान् यावन्नारकाणामेकपरिमाणत्वादवस्थितत्वं, वृद्धिहान्योरभाव इत्यर्थः, एवं रत्नप्रभादिषु यो यत्रोत्पादोद्वर्तनाविरहकालश्चतुर्विंशतिमुहर्तादिको व्युत्क्रान्तिपदेऽभिहितः स तत्र तेषु तत्तुल्यस्य समसंख्यानामुत्पादोद्वर्तनाकालस्य मीलनाद् द्विगुणितः सन्नवस्थितकालोऽष्टचत्वारिंशन्मुहूर्त्तादिकः मूत्रोक्तो भवति, विरहकालश्च प्रतिपदमवस्थानकालार्द्धभूतः स्वयमभ्यूह्य इति । 'एगिदिया वड्ढंतिवित्ति तेपु विरहाभावेऽपि बहुतराणामुत्पदादल्पतराणां चोद्वर्तनात् , 'हायंतिवित्ति बहुतराणामुद्वर्तनादल्पतराणां चोत्पादात् , 'अवट्ठियाविति तुल्यानामुत्पादादुद्वर्तनाचेति, 'एतेहिं तिहिविपत्ति एतेषु विष्वपि एकेन्द्रियवृद्वयादिष्वावलिकाया असंख्यो भागस्ततः परं यथायोग वृद्धयादरभावात् 'दो अतोमुहुत्त'| ति एकमन्तमुहर्त विरहकालो द्वितीयं तु समानानामुत्पादोद्वर्तनकाल इति । 'आणयपाणयाणं संखेजा मासा आरणच्चुयाणं संखेजा वासत्ति इह विरहकालस्य संख्यातमासवर्षरूपस्य द्विगुणितत्वेऽपि संख्यातत्व मेवेत्यतः संख्याता मासा इत्यायुक्तम् , 'एवं गेवेजदेवाणं ति इह यद्यपि ग्रैवेयकाधस्तनत्रये संख्यातानि वर्षाणां शतानि मध्यमे सहस्राणि उपरिमे लक्षाणि विरह उच्यते | तथापि द्विगुणितेऽपि च संख्यातवर्षत्वं न विरुध्यते, विजयादिषु त्वसंख्यातकालो विरहः स च द्विगुणितोऽपि स एव, सर्वार्थसिद्धे
४४४॥