SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४३३॥ मानोत्थापकतयेत्यर्थः अतोऽसावहेतुरेव एवं पश्यतीत्यादि, तथा 'अहेतुं केवलिमरणं मरह'ति 'अहेतुं' निर्हेतुकं अनुपक्रमत्वात् केवलिमरणं 'म्रियते' करोतीत्यहेतुरसौ पञ्चम इति । प्रकारान्तरेणा हेतूने वाह -- 'पंचे 'त्यादि, तथैव, नवरम् 'अहेतुना' हेत्वभावेन केवलित्वाज्जानाति योऽसावहेतुरेव एवं पश्यतीत्यादयोऽपि ३, 'अहेउणा केवलिमरणं मरह' नि 'अहेतुना' उपक्र माभावेन केवलिमरणं म्रियते, केवलिनो निर्हेतुकस्यैव तस्य भावादिति ॥ अहेतूनेव प्रकारान्तरेणाह - 'पंच अहेऊ' इत्यादि, 'अहेतवः' अहेतु व्यवहारिणः, ते च पंच ज्ञानादिभेदात्, तद्यथा- 'अहेडं न जाणइ'ति, 'अहेतुं' न हेतुभावेन स्वस्यानुमानानुस्थापकतयेत्यर्थः ' न जानाति' न सर्वथाऽवगच्छति, कथञ्चिदेवावगच्छतीत्यर्थः, नत्रो देशप्रतिषेधार्थत्वात् ज्ञातुश्वावध्यादिज्ञानववात् कथंचिज्ज्ञानमुक्तं, सर्वथा ज्ञानं तु केवलिन एव स्यादिति, एवमन्यान्यपि ३, तथा 'अहेउं छउमत्थमरणं मरइति अहेतुरध्यवसानादेरुपक्रम कारणस्याभावाद् छद्मस्थमरणम केवलित्वात्, न त्वज्ञानमरणमवध्यादिज्ञानवत्वेन ज्ञानित्वात्तस्येति || अहेतूने वान्यथाऽऽह - 'पंचे' त्यादि, तथैव नगरम् 'अहेतुना' हेत्वभावेन न जानाति कथंचिदेवाध्यवस्यतीति । गमनिकामात्रमेवेदमष्टानामध्येषां सूत्राणां, भावार्थ तु बहुश्रुता विदन्तीति ॥ पञ्चमशते सप्तमोद्देशकः ॥ ६-७ ॥ ९१ सप्तमे उद्देश के पुद्गलाः स्थितितो निरूपिताः, अष्टमे तु त एव प्रदेशतो निरूध्यंते, इत्येवं सम्बन्धस्यास्येदं प्रस्तावनामूत्रम्ते काले २ जाब परिसा पडिगया, तेणं कालेणं २ समणस्स ३ जाव अंतेवासी नारयपुत्ते नामं अणगारे पगतिभए जाव विहरति, तेणं कालेणं २ समणस्स ३ जाब अंतेवासी नियंठिपुत्ते णामं अण० पग ५ शतके उद्देशः ७ हेत्व हेतवः मृ०२१९ प्र० आ०२३९ ॥४३३ ॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy