________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४१५॥
%%%*CREC
५ शतके उदेशः ६ इषुपातादौ
क्रिया मू०२०६
स्थादत आह-'विहायसि' इत्याकाशे 'उविहईत्ति 'ऊवं विजहाति' ऊब क्षिपतीत्यर्थः, 'अभिहणइति अभिमुखमागच्छतो हन्ति 'वत्तेइ'त्ति वर्तुलीकरोति शरीरसङ्कोचापादनात् 'लेसेइति 'श्लेषयति' आत्मनि श्लिष्टान् करोति 'संघाएइ'त्ति अन्योऽन्यं गात्रैः संहतान करोति 'संघद्देइति मनाक स्पृशति 'परितावेईत्ति समन्ततः पीडयति 'किलामेइत्ति मारणान्तिकादिसमुद्घातं नयति 'ठाणाओ ठाणं संकामेइ' स्वस्थानात्स्थानान्तरं नयति 'जीवियाओ ववरोवेइति च्युतजीवितान् करोतीति, 'किरियाहिं पुढे'त्ति क्रियाभिः स्पृष्टः, क्रियाजन्येन कर्मणा बद्ध इत्यर्थः, 'धणु'त्ति धनुः-दण्डगुणादिसमुदायः, ननु पुरुषस्य पञ्च क्रिया | भवन्तु, कायादिव्यापाराणां तस्य दृश्यमानत्वात् धनुरादिनिवर्त्तक शरीराणां तु जीवानां कथं पञ्च क्रियाः १, कायमात्रस्यापि तदीयस्स | तदानीमचेतनत्वात, अचेतनकायमात्रादपि बन्धाभ्युपगमे सिद्धानामपि तत्प्रसङ्गः, तदीयशरीराणामपि प्राणातिपातहेतुत्वेन लोके विपरिवर्तमानत्वात, किञ्च-यथा धनुरादीनि कायिक्यादिक्रियाहेतुत्वेन पापकर्मबन्धकारणानि भवन्ति तज्जीवानामेवं पात्रदण्डकादीनि जीवरक्षाहेतुत्वेन पुण्यकर्मनिबन्धनानि स्युः, न्यायस्य समानत्वाद् इति, अत्रोच्यते, अविरतिपरिणामाद् बन्धः, अविरतिपरिणामश्च यथा पुरुषस्यास्ति एवं धनुरादिनिर्वर्तकशरीरजीवानामपीति, सिद्धानां तु नास्त्यसाविति न बन्धः, पात्रादिजीवानां तु न पुण्यबन्धहेतुत्वं, तद्धेतोविवेकादेस्तेष्वभावादिति, किश्व-सर्वज्ञवचनप्रामाण्यायथोक्तं तत्तथा श्रद्धेय मेवेति, इषुरिति-शरपत्रफलादिसमुदायः॥ 'अहे णं से उसू'इत्यादि इह धनुष्मदादीनां यद्यपि सर्वक्रियासु कथश्चिनिमित्तभावोऽस्ति तथाऽपि विवक्षितबन्धं प्रत्यमुख्यप्रवृत्तिकतया विवक्षितवधक्रियायास्तैः कृतत्वेनाविवक्षणाच्छेषक्रियाणां च निमित्तभावमात्रेणापि तत्कृतत्वेन विवक्षणाचतस्रस्ता उक्ताः, बाणादिजीवशरीराणां तु साक्षाद् वधक्रियायां प्रवृत्तत्वात्पञ्चेति ॥ अथ सम्यक्प्ररूपणाधिकारान्मिथ्याप्ररूप
%AC%
॥४१५॥