________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥४१३॥
किरिया कज्जइ ५ ९; गोयमा ! कइयस्स ताओ धणाओ हेटिल्लाओ बसारि किरियाओ कज्जंति, मिच्छादंसण किरिया भयणाए, गाहावतिस्स ताओ सव्वाओ पतणुईभवंति, धनेऽनुपनीते क्रयिकस्य महत्यस्ता भवन्ति, धनस्य तदीयत्वात् गृहपतेस्तु तास्तनुकाः, धनस्य तदानीमतदीयत्वात् एवं द्वितीयसूत्रसमानमिदं तृतीयम्, अत एवाह - 'एयंपि जहा भंडे उबणीए तहा पति, द्वितीयसूत्रसमतयेत्यर्थः ३ । चतुर्थ त्वेवमध्येयम्- 'गाहावइस्स णं भंते ! मंडं विकिणमाणस्स कइए भंड साइज्जेज्जा धणे य से | उवणीए सिया, गाहावइस्स णं भंते ! ताओ धणाओ कि आरंभिया किरिया कज्जइ ५ १, कइयस्स वा ताओ धणाओ कि आरंभिया किरिया कज्जइ ५ १, गोयमा ! गाहावहस्स ताओ धणाओ आरंभिया ४, मिच्छादंसणवत्तिया किरिया सिय कज्जड़ सिय नो कज्जइ, कइयस्स णं ताओ सव्वाओ पयणुईभवति' धने उपनीते धनप्रत्ययत्वात्तासां गृहपतेर्महत्यः, क्रयिकस्य तु प्रतनुकाः, धनश्य तदानीम तदीयत्वात् एवं च प्रथमसूत्रसममिदं चतुर्थमिति एतदनुसारेण च सूत्र पुस्तकाक्षराण्यनुगन्तव्यानि ॥ क्रियाऽधिकारादिदमाह - 'अगणी' इत्यादि, 'अहुणोज्जलिए'ति 'अधुनोज्ज्वलितः' सद्यः प्रदीप्तः 'महाकम्मतराए'त्ति विध्यायमानानलापेक्षयाऽतिशयेन महान्ति कर्माणि - ज्ञानावरणादीनि बन्धमाश्रित्य यस्यासौ महाकर्म्मतरः एवमन्यान्यपि, नवरं क्रिया-दाहरूपा आश्रवो- नवकर्मोपादानहेतुः वेदना - पीडा भाविनि तत्कर्मजन्या परस्परसंबाधजन्या वा 'वोक्कसिज्जमाणे 'त्ति ' व्यवकृष्यमाणः ' अपकर्ष गच्छन् 'अप्पकम्मतराए'ति अङ्गाराद्यवस्थामाश्रित्य, अल्पशब्दः स्तोकार्थः [क्षरावस्थायां त्वभावार्थः ] ॥ क्रियाऽधिकारादेवेदमाह -
पुरिसे णं भंते! धणुं परामुसइ धणुं परामुसित्ता उसुं परामुसइ २ ठाणं ठाइ ठाणं ठिच्चा आयतकण्णात्रयं उसुं
५ शतके
उद्देशः ६ विक्रयादौ
क्रिया
मृ०२०६
॥४१३॥