SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥२१०॥ एयं ॥ १ ॥” व्यञ्जनं-मषतिलकादिकम्, अथवा सहजं लक्षणं पश्चाद्भवं व्यञ्जनमिति, गुणाः - सौभाग्यादयो लक्षणव्यञ्जनानां वा ये गुणास्तैरुपपेतं यत्तत्तथा, उपअपइतम् इत्येतस्य स्थाने निरुक्तिवशादुपपेतं भवतीति, 'सिरीए'ति लक्ष्म्या शोभया वा ॥ 'हट्ठचित्तमाणंदिए'ति हृष्टतुष्टमत्यर्थं तुष्टं हृष्टं घा - विस्मितं तुष्टं च-सन्तोषवच्चित्तं - मनो यत्र तत्तथा तद् हृष्टतुष्टचित्तं यथा भवति एवम् आनन्दितः' ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः, ततश्च 'नंदिए 'ति नन्दितः तैरेव समृद्धतरतामुपगतः 'पी मणेति श्रीतिः - प्रीणनमाप्यायनं मनसि यस्य स तथा 'परमसोमणस्सिए'ति परमं सौमनस्यं - सुमनस्कता संजातं यस्य स परमसौमनस्थितस्तद्वाऽस्यास्तीति परमसौमनस्थिकः 'हरिसवस विसप्पमाणहियए' ति हर्षवशेन विसर्पद् विस्तारं व्रजद् हृदयं यस्य स तथा, एकार्थिकानि वैतानि प्रमोदप्रकर्षप्रतिपादनार्थानीति । 'दव्वओ णं एगे लोए सअंते'त्ति पश्चास्तिकाय मयैकद्रव्यत्वाल्लोकस्य सान्तोऽसौ, 'आयामविक्ग्वं भेणं' ति आयामो- दैर्घ्यं विष्कम्भो - विस्तारः 'परिक्खेवेणं' ति परिधिना 'भुविसु य'ति अभवत् इत्यादिभिश्च पदैः पूर्वोक्तपदानामेव तात्पर्यमुक्तं, 'धुवे 'ति ध्रुवोऽचलत्वात् स चानियतरूपोऽपि स्यादत आह- 'णियए' चि नियत एकस्वरूपत्वात्, नियतरूपः कादाचित्कोऽपि स्यादत आह- 'सास ए 'ति शाश्वतः प्रतिक्षणं सद्भावात् स च नियतकालापेक्षयाऽपि स्यादित्यत आह- 'अक्खए 'त्ति अक्षयोऽविनाशित्वात्, अयं च बहुतरप्रदेशापेक्षयाऽपि स्यादित्यत आह- 'अच्वए 'चि अव्ययस्तत्प्रदेशानामव्ययत्वात्, अयं च द्रव्यतयाऽपि स्यादित्याह - 'अवट्ठिए'त्ति अवस्थितः पर्यायाणामनन्ततयाऽवस्थितत्वात् किमुक्तं भवति ?नित्य इति, 'वण्णपज्जव 'त्ति वर्णविशेषा एकगुणकालत्वादयः, एवमन्येऽपि, गुरुलघुपर्य वास्तद्विशेषा बादरस्कन्धानाम्, अगुरुलघुपयवा अणूनां सूक्ष्मस्कन्धानाममूर्त्तानां च, 'नाणपज्जव'त्ति ज्ञानपर्याया ज्ञानविशेषा बुद्धिकृता वाऽविभागपरिच्छेदाः, अनन्ता गुरुलघुप २. शतके उद्देश: १ स्कन्दक चरित्रं सू० ९० ॥२१०॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy