________________
भ्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ॥४१०॥
|५ शतके उद्देशः६ अल्पायुष्कतादिविचार सू०२०३
अथायुष एव दीर्घस्य सूत्रद्वयेनाशुभशुभत्वकारणान्याह-कहन्न'मित्यादि, प्राग्वन्नवरं श्रमणादिकं हीलनादिकरणतः प्रतिलभ्येत्यक्षरघटना, तत्र हीलनं-जात्याधुघट्टनतः कुत्सा निन्दनं मनसा खिसनं-जनसमक्षं गर्हणं-तत्समक्षम् 'अपमाननं' अनभ्युत्थानादिकरणं 'अन्यतरेण' बहूनामेकतमेन 'अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिना अत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञं मनोज्ञमेव मनोज्ञफलत्वात्, इह च सूत्रेऽशनादि प्रासुकादिना न विशेषितं, हीलनादिकर्तुः प्रासुकादिविशेषणस्य दानस्य फलविशेष प्रत्यकारणत्वेन मत्सरजनितहीलनादिविशेषणानामेव च प्रधानतया तत्कारणत्वेन विवक्षणात्, वाचनान्तरे तु 'अफासुएणं अणेसणिज्जेणेति दृश्यते, तत्र च प्रासुकदानमपि हीलनादिविशेषितमशुभदार्घायुःकारणं, अप्रासुकदानं तु विशेषत इत्युपदर्शयता 'अफामुएण' इत्याधुक्तमिति, प्राणातिपातमृषावादनयोर्दानविशेषणपक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति, भवति च प्राणातिपातादेरशुभदीर्घायुः, तेषां नरकगतिहेतुत्वात् , यदाह-"मिच्छलिटिमहारंभपरिग्गहो तिव्वलोभ निस्सीलो । नरयाउयं निबंधइ पावमई रोद्दपरिणामो॥१॥" नरकगतौ च विवक्षया दीर्घमेवायुः ॥ विपर्ययसूत्रं प्रागिव, नवरं इहापि प्रासुकापासुकतया दानं न विशेषितं, पूर्वसूत्र विपर्ययत्वाद् अस्य, पूर्वमूत्रस्य चाविशेषणतया प्रवृत्तत्वात्, न च प्रासुकाप्रासु| कदानयोः फलं प्रति न विशेषोऽस्ति, पूर्वमूत्रयोस्तस्य प्रतिपादितत्वात् , तस्मादिह प्रामुकैपणीयस्य दानस्य कल्प्याप्राप्तावितरस्य चेदं फलमवसेयं, वाचनान्तरे तु 'फासुएण'मित्यादि दृश्यत एवेति, इह च प्रथममल्पायुःमूत्रं द्वितीयं तद्विपक्षस्तृतीयमशुभदीर्घायुःसूत्रं चतुर्थ तु तद्विपक्ष इति ॥ अनन्तरं कर्मबन्धक्रियोक्ता, अथ क्रियान्तराणां विषयनिरूपणायाह
गाहावइस्स णं भंते ! विक्षिणमाणस्स केइ भंडं अवहरेजा ? तस्स णं भंते ! तं भंडं अणुगवेसमाणस
०आ०२२७
॥४१०॥