________________
व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४०२॥
समये जीवप्रदेशेभ्यः परिशटतीति । 'पणीयन्ति प्रणीतं शुभतया प्रकृष्टं 'धारेजति धारयेद,व्यापारयेदित्यर्थः । 'एवं अणंतरे'त्यादि, अस्यायमर्थः-यथा वैमानिका द्विविधा उक्ताः, मायिमिथ्यादृष्टीनां च ज्ञाननिषेधः, एवममायिसम्यग्दृष्टयोऽनन्तरोपपन्नपर
५ शतके म्परोपपन्नकमेदेन द्विधा वाच्याः, अनंतरोपपन्नकानां च ज्ञाननिषेधः, तथा परम्परोपपन्नका अपि पर्याप्तकापर्याप्तकमेदेन द्विधा ।
| उद्देशः४
अंतकरादिवाच्याः, अपर्याप्तकानां च ज्ञाननिषेधः, तथा पर्याप्तका उपयुक्तानुपयुक्तभेदेन द्विधा वाच्या:, अनुपयुक्तानां च ज्ञाननिषेधश्चेति ।
ज्ञानं वाचनान्तरे विदं सूत्रं साक्षादेवोपलभ्यते, 'आलावं वत्ति सकृजल्पं 'संलावं वत्ति मुहमुहुर्जल्पं मानसिकमेवेति 'लद्धाओंत्ति तदवधेर्विषयभावं गताः 'पत्ताओं'त्ति तदवधिना सामान्यतः प्राप्ताः, परिच्छिन्ना इत्यर्थः 'अभिसमन्नागयाओत्ति विशेषतः परिच्छिन्नाः, यतस्तेषामवधिज्ञानं संभिन्नलोकनाडीविषयं, यच्च लोकनाडीग्राहकं तन्मनोवर्गणाग्राहकं भवत्येव, यतो योऽपि | लोकसंख्येयभागविषयोऽवधिः सोऽपि मनोद्रव्यग्राही यः पुनः संभिन्नलोकनाडीविषयोऽसौ कथं मनोदव्यग्राही न भविष्यति ?, इष्यते च लोकसंख्येयभागावधेर्मनोद्रव्यग्राहित्वं, यदाह-"संखेज मणोदव्वे भागो लोग पलियस्स बोद्धव्यो"ति। अनुत्तरसुराधिकारादिदमाह-'अनुत्तरेत्यादि, 'उदिन्नमोहति उत्कटवेदमोहनीयाः 'उवसंतमोहति अनुत्कटवेदमोहनीयाः, परिचारणायाः कथञ्चिदप्यभावात् , नतु सर्वथोपशान्तमोहाः, उपशमश्रेणेस्तेषामभावात् , 'नो खीणमोहत्ति क्षपकश्रेण्या अभावादिति ।। पूर्वतनसूत्रे केवल्यधिकारादिदमाहकेवली ण भंते ! आयाणेहिं जा पा०, गोयमा ! णो तिणटे स०, से केणगं जाव केवली णं आयाणेहिं
॥४०॥ न जाणइ न पासइ, गोयमा! केवली णं पुरच्छिमेणं मियपि जाणइ अमियंपि जा. जाब निम्बुडे दंसणे