________________
५ शतके उद्देशः४
अंतकरादि
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥४०॥
याऽवसेयं, न
य नाथस्तत्प्रमाणं प्रमिनि
| ज्ञानं मृ०१९६
ति प्रत्यक्षम् 'अणुमा
वाक्यान्तराणि शृण्वन् अयमन्तकरो भविष्यतीत्यादिकमपि वाक्यं शृणुयात् ततश्च तद्वचनश्रवणाजानातीति, 'केवलिउवासगस्स'त्ति केवलिनमुपास्ते यः श्रवणानाकाशी तदुपासनमात्रपरः सन्नसौ केवल्युपासकः तस्य वचः श्रुत्वा जानाति, भावना प्रायः प्राग्वत् , 'तप्पक्खियस्स'त्ति केवलिपाक्षिकस्य, स्वयंबुद्धस्येत्यर्थः, इह च श्रुत्वेति बचनेन प्रकीर्णकं वचनमात्रं ज्ञाननिमित्ततयाऽवसेयं, न वागमरूपं, तस्य प्रमाणग्रहणेन गृहीष्यमाणत्वादिति ।। 'पमाणे'त्ति प्रमीयते येनार्थस्तत्प्रमाणं प्रमितिर्वा प्रमाणं 'पच्चक्खे'त्ति अक्षं-जीवम् अक्षाणि वा-इन्द्रियाणि प्रति गतं प्रत्यक्षम् 'अणुमाणे त्ति अनु-लिङ्गग्रहणसम्बन्धस्मरणादेः पश्चान्मीयतेऽनेनेत्यनुमानम् 'ओवम्मति उपमीयते-सदृशतया गृह्यते वस्त्वनयेत्युपमा सैव औपम्यम् 'आगमे ति आगच्छति गुरुपारम्पयणेत्यागमः, एषां स्वरूपं शास्त्रलाघवार्थमतिदेशत आह-'जहे'त्यादि,एवं चैतत्स्वरूपम्-द्विविधं प्रत्यक्षम्-इन्द्रियनोइन्द्रियभेदात्, तत्रेन्द्रियप्रत्यक्षं पञ्चधा-1 श्रोत्रादीन्द्रियभेदात् , नोइन्द्रियप्रत्यक्षं विधा-अवध्यादिभेदादिति, त्रिविधमनुमानं-पूर्ववच्छेषवदृष्टसाधर्म्यवच्चेति, तत्र पूर्ववत् पूर्वोपलब्धासाधारणलक्षणान्मात्रादि(देः)प्रमातुः पुत्रादिपरिज्ञानं, शेषवत् यत्कार्यादिलिङ्गात्परोक्षार्थज्ञानं यथा मयूरोत्र केकायितादिति, दृष्टसाधर्म्यवत् यथैकस्य कार्षापणादेर्दर्शनादन्येऽप्येवंविधा एवेति प्रतिपत्तिरित्यादि, औपम्य यथा गौर्गवयस्तयेत्यादि, आगमस्तु विधा-लौकिकलोकोत्तरभेदात् , त्रिधा वा सूत्रार्थोभयभेदात् , अन्यथा वा त्रिधा-आत्मागमानन्तरागमपरम्परागमभेदात् , तत्रात्मा|गमादयोऽर्थतः क्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः, सूत्रतस्तु गणधरतच्छिष्यपशिष्यापेक्षयेति, एतस्य प्रकरणस्य सीमां
कुर्वन्नाह-'जावे'त्यादि, 'तेण परति गणधरशिष्याणां मत्रतोऽनन्तरागमोऽर्थतस्तु परम्परागमः, ततः परं प्रशिष्याणामित्यर्थः || केवलीतरप्रस्ताव एवेदमपरमाह-'केवली णमित्यादि, चरमकर्म यच्छै लेशीचरमसमयेऽनुभूयते, चरमनिर्जरा तु यत्ततोऽनन्तर
प्र०आ०२२५
x
॥४०१॥