________________
५शतके
व्याख्याप्रज्ञप्तिः अभयदेवी
॥३९३॥
'हरी'त्यादि, इह च यद्यपि महावीरसंविधानाभिधायकं पदं न दृश्यते तथाऽपि हरिनैगमेषीति वचनात्तदेवानुमीयते, हरिनग| मेषिणा भगवतो गर्भान्तरे नयनात् , यदि पुनः सामान्यतो गर्भहरणविवक्षाऽभविष्यत्तदा 'देवे णं भंते !' इत्यवक्ष्यदिति, तत्र हरिः
है उद्देशः३ इन्द्रस्तत्सम्बन्धित्वात हरिनैगमेषीति नाम, 'सक्कदूए'त्ति शक्रदूतः शक्रादेशकारी पदात्यनीकाधिपतिर्येन शक्रादेशाद् भगवान् महावीरो
गर्भापहारः देवानन्दागर्भात त्रिशलागर्ने संहत इति, 'इत्थीगम्भंति स्त्रियाः सम्बन्धी गर्भ:-सजीवपुद्गलपिण्डकः स्त्रीगर्भस्तं 'संहरेमाण'त्ति
मू०१८६ अन्यत्र नयन् , इह चतुर्भङ्गिका, तत्र 'गर्भाद्' गर्भाशयादवधेः 'गर्भ' गर्भाशयान्तरं 'संहरति' प्रवेशयति, 'गर्भ' सजीवपुद्गलपिण्डलक्षणमिति प्रकृतमित्येकः १, तथा गर्भादवधेः 'योनि' गर्भनिर्गमद्वारं संहरति, योन्योदरान्तरं प्रवेशयतीत्यर्थः२, तथा 'योनितो' योनिद्वारेण गर्भ संहरति, गर्भाशयं प्रवेशयतीत्यर्थः ३, तथा 'योनितः' योनेः सकाशाद्योनि 'संहरति नयति, योन्योदरान्निष्काश्य योनिद्वारणेवोदरान्तरं प्रवेशयतीत्यर्थः ४, एतेषु शेषनिषेधेन तृतीयमनुजाननाह-'परामुसिए'त्यादि, 'परामृश्य २' तथाविधकरणव्यापारेण संस्पृश्य २ स्त्रीगर्भम् 'अन्याबाधमव्याबाधेन' सुखसुखेनेत्यर्थः 'योनितः' योनिद्वारेण निष्काश्य 'गर्भ' गर्भाशयं 'संहरति' गर्भमिति प्रकृतं, यह योनीतो निर्गमनं स्वीगर्भस्योक्तं तल्लोकव्यवहारानुवर्तनात् , तथाहि-निष्पन्नोऽनिष्पन्नो वा गर्भःहा स्वभावाचोन्यैव निर्गच्छतीति । अयं च तस्य गर्भसंहरणे आचार उक्तः, अथ तत्सामर्थ्य दर्शयन्नाह-पभू ण'मित्यादि, 'नहसिरंसित्ति नखाने 'साहरित्तए'त्ति संहर्तु-प्रवेशयितुं 'नीहरित्तए'त्ति विभक्तिपरिणामेन नखशिरसो रोमकूपाहा 'निहर्नु' निष्काशयितुम् 'आबाहंति ईषद्वाधां 'विवाहं ति विशिष्टबाधां 'छविच्छेदंति शरीरच्छेदं पुनः कुर्यात् , गर्भस्य हि छविच्छेदम- आ०२१८ कृत्वा नखाग्रादौ प्रवेशयितुमशक्यत्वात् 'एसुहुमं च णति इतिसूक्ष्ममिति एवं लध्विति ॥ अनन्तरं महावीरस्य सम्बन्धि ॥३९३॥