SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया इतिः ॥३८७|| ५ शतके उद्देशः३ आयुष्करणादि मू०१८२ | समयेनेत्यादि प्रथमशतकवत् , अत्रोत्तर-'जे ते एबमाहंसु'इत्यादि, मिथ्यात्वं चैषामेवम्-यानि हि बहूनां जीवानां बहून्यायूंषि जालग्रन्थिकावत्तिष्ठन्ति तानि यथास्वं जीवप्रदेशेबु संबद्धवानि स्युरसंबद्धानि वा !, यदि संबद्धानि तदा कथं भिन्नभिन्नजीवस्थितानां तेषां जालग्रन्थिकाकल्पना कल्पयितुं शक्या?, तथाऽपि तत्कल्पने जीवानामपि जालग्रन्थिकाकल्पत्वं स्यात् तत्संबद्धत्वात् , तथा च सर्वजीवानां सर्वायुःसंवेदनेन सर्वजीवानां सर्वभवनप्रसङ्ग इति, अथ जीवानामसंबद्धान्यायूंषि तदा तद्वशाद्देवादिजन्मेति न स्यादसंबद्धत्वादेवेति, यच्चोक्तम् ‘एको जीव एकेन समयेन द्वे आयुषी वेदयति तदपि मिथ्या, आयुर्द्वयसंवेदने युगपद्भवद्वयप्रसङ्गादिति । 'अहं पुण गोयमें'त्यादि, इह पक्षे जालग्रन्थिका-सङ्कलिकामात्रम् , 'एगमेगस्से'त्यादि, एकैकस्य जीवस्य, न तु बहूनां, बहुधा आजातिसहस्रेषु क्रमवृत्तिष्वतीतकालिकेषु तत्कालापेक्षया सत्सु बहून्यायुःसहस्राण्यतीतानि वर्तमानभवान्तानि अन्यभविकमन्यभविकेन प्रतिबद्धमित्येवं सर्वाणि परस्परं प्रतिबद्धानि भवन्ति, न पुनरेकभव एव बहूनि 'इहभवियाउयं वत्ति वर्तमानभवायुः 'परभवियाउयं बत्ति परभवप्रायोग्य यद्वर्तमानभवे निबद्धं तच्च परभवगतो यदा वेदयति तदा व्यपदिश्यते 'परभवियाउयं वति ॥ आयुःप्रस्तावादिदमाह| जीवे णं भंते ! जे भविए नेरइएसु उववजितए से णं भंते ! किं साउए संकमइ निराउए संकमइ ? गोयमा ! साउए संकमइ, नो निराऊए संकमह । से णं भंते ! आउए कहिं कडे कहिं समाइण्णे ?, गोयमा! पुरिमे भवे कडे, पुरिमे भवे समाइण्णे, एवं जाव वेमाणियाण दंडओ। से नूणं भंते ! जे जंभविए जोणिं उववज्जित्तए से तमाउयं पकरेइ, तंजहा-नेरइयाउयं वा जाव देवाउयं वा?, हंता गोयमा! जे भविए ॥३८॥ 26LC
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy