SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः ॥३८६ ॥ पडिसंवेयणाए नो इहभवियाउयं पडिसंवेदेति, एवं खलु एगे जीवे एगेणं समएणं एवं आउयं प०, तंजहाइहभ० वा परभ० वा ॥ ( सूत्रं १८२ ) ॥ 'अन्नउत्थिया ण' मित्यादि, 'जालगंठिय'त्ति जालं - मत्स्यबन्धनं तस्येव ग्रन्थयो यस्यां सा जालग्रन्थिका - जालिका, किं स्वरूपा सा ? इत्याह- 'आणुपुब्विगढ़िय'त्ति आनुपूर्व्या - परिपाठ्या ग्रथिता - गुम्फिता आधुचितग्रन्थीनामादौ विधानाद् अन्तोचितानां क्रमेणान्त एव करणात्, एतदेव प्रपञ्चयन्नाह - 'अनंतर गढिय'त्ति प्रथमग्रन्थीनामनन्तरं व्यवस्थापितैर्ग्रन्थिभिः सह ग्रथिता अनन्तरग्रथिता, एवं परम्परैः - व्यवहितैः सह ग्रथिता परम्परग्रथिता, किमुक्तं भवति ? - 'अन्नमन्नगढिय'त्ति अन्योऽन्यं - परस्परेण एकेन ग्रन्थिना सहान्यो ग्रन्थिरन्येन च सहान्य इत्येवं ग्रथिता अन्योऽन्यग्रथिता, एवं च 'अण्णमन्नगरुयत्ताए 'ति अन्योऽन्येन ग्रन्थनाद् गुरुकता - विस्तीर्णता अन्योऽन्यगुरुकता तया, 'अन्नमन्न भारियत्ताए 'ति अन्योऽन्यस्य यो भारः स विद्यते यत्र तदन्यो|ऽन्यभारिकं तद्भावस्तत्ता तया, एतस्यैव प्रत्येोक्तार्थद्वयस्य संयोजनेन तयोरेव प्रकर्षमभिधातुमाह – 'अन्नमन्नगुरुयसंभारियता' ति अन्योऽन्येन गुरुकं यत्सम्भारिकं च तत्तथा तद्भावस्तत्ता तया, 'अन्नमन्नघडत्ताए 'ति अन्योऽन्यं घटा समुदायरचना यत्र तदन्योऽन्यघटं तद्भावस्तत्ता तया 'चिट्ठइ'ति आस्ते इति दृष्टान्तः, अथ दाष्टन्तिक उच्यते — 'एवामेव 'त्ति अनेनैव न्यायेन बहूनां जीवानां सम्बन्धीनि 'बहुसु आजाइसहस्सेसु'ति अनेकेषु देवादिजन्मसु प्रतिजीवं क्रमप्रवृत्तेष्वधिकरणसूतेषु बहून्यायुष्कसहस्राणि तत्स्वामिजीवानामाजातीनां च बहुशतसहस्रसङ्ख्यत्वात्, आनुपूर्वीग्रथितानीत्यादि पूर्ववद्वयाख्येयं नवरमिह भारिकत्वं कर्म - पुद्गलापेक्षया वाच्यम् ॥ अथैतेषामायुषां को वेदनविधिः १ इत्याह- 'एगेऽवियेत्यादि, एकोऽपि च जीवः, आस्तामनेकः, एकेन ५ शतके उद्देशः ३ जालग्रंथि वदायुः प्र० आ०२१४ सू०१८२ ||३८६ ॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy