________________
३ शतके
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३३०॥
उद्देशः३ एजनादौनाम्तक्रिया प्र०आ०१८४ सू०१५३
| केवलयोगप्रत्ययेति भावः 'किरिये ति कर्म सातवेदनीयमित्यर्थः 'कन्जई'त्ति क्रियते भवतीत्यर्थः, उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकायवर्ती वीतरागोऽपि हि सक्रियत्वात्सातवेद्यं कर्म बनातीति भावः, 'सति ईर्यापथिकी क्रिया पढमसमयबद्धपुट्ठत्ति(प्रथमसमये)बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेशैः स्पर्शनात् ततः कर्मधारये तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिता-अनुभूतस्वरूपा, एवं तृतीयसमये 'निर्जीर्णा' अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशाटितेति, एतदेव वाक्यान्तरेणाह-सा बद्धा स्पृष्टा प्रथम समये, द्वितीये तु 'उदीरिता' उदयमुपनीता, किमुक्तं भवति ?-वेदिता, न होकस्मिन् समये बन्ध उदयश्च संभवतीत्येवं व्याख्यातं, तृतीये तु निर्जीर्णा, ततश्च 'सेयकाले ति एष्यत्काले 'अकम्मं वावित्ति अकर्माऽपि च भवति, | इह च यद्यपि तृतीयेऽपि समये कर्माकर्म भवति तथाऽपि तत्क्षण एवातीतभावकर्मत्वेन द्रव्यकर्मत्वात् तृतीये निर्माण कर्मेति व्यपदिश्यते, चतुर्थादिसमयेषु त्वकर्मेति, 'अत्तत्तासंवुडस्से'त्यादिना चेदमुक्त-यदि संयतोऽपि साश्रवः कर्म बध्नाति तदा सुतरामसंयतः, अनेन च जीवनावः कर्मजलपूर्यमाणतयाऽर्थतोऽधोनिमज्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाच्चाक्रियस्य तद्विपरीतत्वात्कर्मवन्धाभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूगमनं सामर्थ्यादुपनीतमवसेयमिति । अथ यदुक्तं श्रमणानां प्रमादप्रत्यया क्रिया भवतीति | तत्र प्रमादपरत्वं तद्विपक्षत्वात्तदितरत्वं संयतस्य कालतो निरूपयन्नाह___पमत्तसंजयस्स णं भंते ! पमत्तसंजमे वहमाणस्स सब्बावि य णं पमत्तद्धा कालओ केवचिरं होइ ?, मंडियपुत्ता! एगजीवं पडुच्च जहन्नेणं एवं समयं, उकोसेणं देसूणा पुवकोडी, णाणाजीवे पडुच सव्वद्धा ॥ अप्पमत्तसंजयस्स णं भंते ! अप्पमत्तसंजमे वहमाणस्स सब्वावि य णं अप्पमत्तद्धा कालओ केवच्चिरं होइ ?, मंडि