SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३३१॥ यपुत्ता ! एगजीवं पडुच्च जहन्नेणं अंतोमुहुत्तं, उक्को० पुव्वकोडी देसृणा, णाणाजीवे पडुच्च सव्वद्धं, सेवं भंते!२त्ति भयवं मंडियपुत्ते अणगारे समणं भगवं महाबीरं बंदर नर्मसह २ संजमेणं तवसा अप्पाणं भावेमाणे विहरह || (मृ० १५३) ॥ " 'सव्वावि य णं पमत्तद्ध'त्ति 'सर्वाऽपि च ' सर्व्वकालसम्भवाऽपि च 'प्रमत्ताद्वा' प्रमत्सगुणस्थानककालः 'कालतः ' प्रमत्ताद्धासमूहलक्षणं कालमाश्रित्य 'कियचिरं' कियन्तं कालं यावद्भवतीति प्रश्नः ननु कालत इति न वाच्यं, कियच्चिरमित्यनेनैव गतार्थत्वात् नैवं, क्षेत्रत इत्यस्य व्यवच्छेदार्थत्वात् भवति हि क्षेत्रतः कियच्चिरमित्यपि प्रश्न:, यथाऽवधिज्ञानं क्षेत्रतः कियच्चिरं भवति ?, त्रयत्रिंशत्यागरोपमाणि, कालतस्तु सातिरेका षट्षष्टिरिति 'एकं समयं 'ति, कथम् १, उच्यते, प्रमत्तसंयमप्रतिपत्तिसमयसमनन्तरमेव मरणान्, 'देणा पुव्वकोडि'त्ति किल प्रत्येकमन्तर्मुहूर्त्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, संयमवतो हि पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लभते, महान्ति चाप्रमतान्तर्मुहूर्त्तापेक्षया प्रमत्तान्तर्मुहूर्त्तानि कल्प्यन्ते, एवं चान्तर्मुहूर्त्तप्रमाणानां प्रमत्ताद्धानां सर्वासां मीलनेन देशोना पूर्वकोटी कालमानं भवति, अन्ये त्वाहु:- अष्टवर्षोनां पूर्वकोटिं यावदुत्कर्षतः प्रमत्तसंयतता स्यादिति । एवमप्रमत्त मूत्रमपि, नवरं 'जहनेणं अतोमुहत्तं' ति किलाप्रमत्ताद्धायां वर्त्तमानस्यान्तर्मुहूर्तमध्ये मृत्युर्न भवतीति, चूर्णिकारमतं तु प्रमत्तसंयतवर्जः सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते, प्रमादाभावात् स चोपशमश्रेणीं प्रतिपद्यमानो मुहूर्त्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यत इति, देशोनपूर्वकोटी तु केवलिनमाश्रित्येति || ' णाणाजीवे पडुच सव्वद्ध' मित्युक्तं, अथ सर्वाद्वाभाविभावान्तरप्ररूपणायाह ३ शतके उद्देशः ३ प्रमत्ताप्रमत्त कालः मृ० १५४ | ॥३३१॥
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy