SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः ॥३३१॥ 9A% यपुत्ता! एगजीवं पडुच्च जहन्नेणं अंतोमुहुतं, उक्को. पुव्वकोडी देसूणा, णाणाजीवे पडुच्च सव्वद्धं, सेवं भंते !२त्ति भयवं मंडियपुत्ते अणगारे समणं भगवं महावीरं वंदइ नमसइ २ संजमेणं तवसा अप्पाणं भावेमाणे IR३ शतके विहरइ ।। (मू० १५३)॥ | उद्देशः३ | 'सव्वावि य णं पमत्तद्धत्ति 'सर्वाऽपि च सर्वकालसम्भवाऽपि च 'प्रमत्ताद्धा' प्रमत्तगुणस्थानककालः 'कालत:' प्रमत्ताप्रमत्त काल: प्रमत्ताद्धासमूहलक्षणं कालमाश्रित्य 'कियचिरं' कियन्तं कालं यावद्भवतीति प्रश्नः, ननु कालत इति न वाच्यं, कियच्चिरमित्यनेनैव मू०१५४ गतार्थत्वात् , नैवं, क्षेत्रत इत्यस्य व्यवच्छेदार्थत्वात् , भवति हि क्षेत्रतः कियच्चिरमित्यपि प्रश्नः, यथाऽवधिज्ञान क्षेत्रतः कियचिरं । भवति ?, त्रयस्त्रिंशत्मागरोपमाणि, कालतस्तु सातिरेका षट्षष्टिरिति, 'एक समयंति, कथम् ?, उच्यते, प्रमत्तसंयमप्रतिपत्तिसमय| समनन्तरमेव मरणान् , 'देमूणा पुवकोडित्ति किल प्रत्यकमन्तर्मुहूर्त्तप्रमाणे एव प्रमत्ताप्रमत्तगुणस्थानके, ते च पर्यायेण जायमाने | देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, संयमवतो हि पूर्वकोटिरेव परमायुः, स च संयममष्टासु वर्षेषु गतेष्वेव लभते, महान्ति चाप्र-| मत्तान्तर्मुहूर्त्तापेक्षया प्रमत्तान्तर्मुहूर्त्तानि कल्प्यन्ते, एवं चान्तर्मुहूर्तप्रमाणानां प्रमत्ताद्धानां सर्वासां मीलनेन देशोना पूर्वकोटी काल-| मानं भवति, अन्ये त्वाहुः-अष्टवर्षीनां पूर्वकोटिं यावदुत्कर्षतः प्रमत्तसंयतता स्यादिति । एवमप्रमत्तमूत्रमपि, नवरं 'जहन्नेणं अतोमुहत्तंति किलाप्रमत्ताद्धायां वर्तमानस्यान्तर्मुहूर्तमध्ये मृत्युन भवतीति, चूर्णिकारमतं तु प्रमत्तसंयतवर्जः सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते, प्रमादाभावात् , स चोपशमश्रेणी प्रतिपद्यमानो मुहूर्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यत इति, देशोनपूर्वकोटी तु ॥३३॥ केवलिनमाश्रित्येति ॥ 'णाणाजीवे पडुच्च सव्वद्ध' मित्युक्तं, अथ सर्वाद्धाभाविभावान्तरप्ररूपणायाह A --k
SR No.600376
Book TitleVyakhyapragnapti Sutra
Original Sutra AuthorN/A
AuthorAbhaydevsuri
PublisherZZZ Unknown
Publication Year
Total Pages367
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy