________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः
॥३३०॥
केवल योगप्रत्ययेति भावः 'किरिये 'ति कर्म सातवेदनीयमित्यर्थः 'कज्जइ'त्ति क्रियते भवतीत्यर्थः, उपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणगुणस्थानकत्रयवर्त्ती वीतरागोऽपि हि सक्रियत्वात्सातवेद्यं कर्म बनातीति भावः, 'से'ति ईर्यापथिकी क्रिया 'पढमसमयबद्धपुढ' ति ( प्रथमसमये) बद्धा कर्मतापादनात् स्पृष्टा जीवप्रदेशैः स्पर्शनात् ततः कर्मधारये तत्पुरुषे च सति प्रथमसमयबद्धस्पृष्टा, तथा द्वितीयसमये वेदिता - अनुभूतस्वरूपा, एवं तृतीयसमये 'निर्जीर्णा' अनुभूतस्वरूपत्वेन जीवप्रदेशेभ्यः परिशाटितेति एतदेव वाक्यान्तरेणाह - सा बद्धा स्पृष्टा प्रथमे समये, द्वितीये तु 'उदीरिता' उदयमुपनीता, किमुक्तं भवति १ - वेदिता, न ह्येकस्मिन् समये बन्ध | उदयश्च संभवतीत्येवं व्याख्यातं, तृतीये तु निर्जीर्णा, ततश्च 'सेयकाले 'ति एष्यत्काले 'अकम्मं वाविति अकर्माऽपि च भवति, इह च यद्यपि तृतीयेऽपि समये कर्माकर्म भवति तथाऽपि तत्क्षण एवातीत भावकर्मत्वेन द्रव्यकर्मत्वात् तृतीये निर्जीर्ण कर्मेति व्यपदिश्यते, चतुर्थादिसमयेषु त्वकर्मेति, 'अत्तत्तासंवुडस्से' त्यादिना चेदमुक्तं-यदि संयतोऽपि साश्रवः कर्म बनाति तदा सुतरामसंयतः, अनेन च जीवनात्रः कर्म्मजल पूर्यमाणतयाऽर्थतोऽधोनिमज्जनमुक्तं, सक्रियस्य कर्मबन्धभणनाच्चाक्रियस्य तद्विपरीतत्वात्कर्मबन्धाभाव उक्तः, तथा च जीवनावोऽनाश्रवतायामूर्द्धगमनं सामर्थ्यादुपनीतमवसेयमिति । अथ यदुक्तं श्रमणानां प्रमादप्रत्यया क्रिया भवतीति तत्र प्रमादपरत्वं तद्विपक्षत्वात्तदितरत्वं संयतस्य कालतो निरूपयन्नाह -
पत्तसंजयस्स णं भंते! पमत्तसंजमे वहमाणस्स सव्बावि य णं पमत्तद्धा कालओ केवच्चिरं होइ ?, मंडियपुत्ता ! एंगजीवं पडुच्च जहन्नेणं एकं समयं, उक्कोसेणं देसूणा पुब्वकोडी, णाणाजीवे पडुच्च सव्वद्धा ॥ अप्पमत्तसंजयस्स णं भंते ! अप्पमत्तसंजमे वद्यमाणस्स सव्वावि य णं अप्पमत्तद्धा कालओ केवच्चिरं होइ ?, मंडि -
३ शतकें
उद्देशः ३ एजनादौ
नान्तक्रिया
प्र० आ०१८४ सू०१५३
॥३३०॥