________________
व्याख्या
प्रज्ञप्तिः
अभयदेवीया वृत्तिः ॥३२८॥
|३ शतके | उद्देशः ३ एजनादाव
मोक्षः सू०१५३
CAKARCH
'जीवे 'मित्यादि, इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगस्यैजनादेरसम्भवात, 'सदा' नित्यं 'समियंति सप्रमाणं Bा 'एयइति एजते-कम्पते 'एजु कम्पने' इति वचनान् ‘वेयइत्ति 'व्येजते' विविधं कम्पते 'चलई'त्ति स्थानान्तरं गच्छति 'फंद
इत्ति 'स्पन्दते' किञ्चिच्चलति 'स्पदि किञ्चिच्चलने इति वचनात् , अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये, 'घट्टईत्ति सर्वदिक्षु | चलति, पदार्थान्तरं वा स्पृशति, 'खुम्भइ'त्ति 'क्षुभ्यति' पृथिवीं प्रविशति, क्षोभयति वा पृथिवीं, बिभेति वा, 'उदीरइत्ति प्राबल्येन | प्रेरयति, पदार्थान्तरं प्रतिपादयति वा, शेषक्रियाभेदसङ्ग्रहार्थमाह-तं तं भावं परिणमइत्ति उत्क्षेपणावक्षेपणाकुश्चनप्रसारणादिकं | परिणाम यातीत्यर्थः, एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं, न तु प्रत्येकापेक्षया, क्रमभाविनां युगपद-|
भाषादिति, 'तस्स जीवस्स अंतेत्ति मरणान्ते 'अंतकिरिय'त्ति सकलकर्मक्षयरूपा, 'आरंभइत्ति आरभते पृथिव्यादीनुपद्र| वयति 'सारंभइ'त्ति "संरभते' तेषु विनाशसङ्कल्पं करोति 'समारंभइ'त्ति 'समारभते' तानेव परितापयति, आह च-"संकप्पो संरंभो परितावकरो भवे समारंभो । आरंभो उद्दवओ सन्वनयाणं विमुद्धाणं ॥१॥” इदं च क्रियाक्रियावतः(तोः) कथञ्चिदभेद इत्यभिधानाय तयोः समानाधिकरणतः मूत्रमुक्तम् , अथ तयोः कथश्चिद् भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थ व्यधिकरणत आह'आरंभे'इत्यादि, आरम्भे अधिकरणभूते वर्तते जीवः, एवं संरम्भे समारम्भे च, अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाहआरम्भमाणः संरभमाणः समारभमाणो जीव इत्यनेन प्रथमो वाक्यार्थोऽनूदितः, आरम्भे वर्तमान इत्यादिना तु द्वितीयः, 'दुक्खावणयाए' इत्यादौ ताशब्दस्य प्राकृतप्रभवत्वात् 'दुःखापनायां' मरणलक्षणदुःखप्रापणायाम्, अथवा इष्टवियोगादिदुःखहेतुप्रापणायां, वर्चत इति योगः, तथा 'शोकापनायाँ दैन्यप्रापणायां 'जूरावणताए'चि शोकातिरेकाच्छरीरजीर्णताप्रापणायां 'तिप्पावणया
प्र०मा०१८३
॥३२